Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 2
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मौदन सूक्त

    कृ॑णु॒त धू॒मं वृ॑षणः सखा॒योऽद्रो॑घाविता॒ वाच॒मच्छ॑। अ॒यम॒ग्निः पृ॑तना॒षाट् सु॒वीरो॒ येन॑ दे॒वा अस॑हन्त॒ दस्यू॑न् ॥

    स्वर सहित पद पाठ

    कृ॒णु॒त । धू॒मम् । वृ॒ष॒ण॒: । स॒खा॒य॒: । अद्रो॑घऽअविता । वाच॑म् । अच्छ॑ । अ॒यम् । अ॒ग्नि: । पृ॒त॒ना॒षाट् । सु॒ऽवीर॑: । येन॑ । दे॒वा: । अस॑हन्त । दस्यु॑न् ॥१.२॥


    स्वर रहित मन्त्र

    कृणुत धूमं वृषणः सखायोऽद्रोघाविता वाचमच्छ। अयमग्निः पृतनाषाट् सुवीरो येन देवा असहन्त दस्यून् ॥

    स्वर रहित पद पाठ

    कृणुत । धूमम् । वृषण: । सखाय: । अद्रोघऽअविता । वाचम् । अच्छ । अयम् । अग्नि: । पृतनाषाट् । सुऽवीर: । येन । देवा: । असहन्त । दस्युन् ॥१.२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 2

    टिप्पणीः - २−(कृणुत) कुरुत (धूमम्) इषियुधीन्धिदसिश्याधूसूभ्यो मक्। कम्पनं चेष्टनम्। (वृषणः) अ० १।१२।१। वृषु सेचने प्रजनैश्ययोः-कनिन्। वा षपूर्वस्य निगमे। पा० ६।४।९। दीर्घाभावः। वृषाणः। ऐश्वर्यवन्तः। इन्द्राः (सखायः) सर्वमित्रभूताः (अद्रोघाविता) अद्रोहकारिणां सुचरित्राणामविता रक्षिता (वाचम्) वचनम् (अच्छ) अभिलक्ष्य (अयम्) (अग्निः) तेजस्वी विद्वान् (पृतनाषाट्) अ० ५।१४।८। संग्रामजेता (सुवीरः) नञ्सुभ्याम्। पा० ६।२।११२। इत्युत्तरपदेऽन्तोदात्ते प्राप्ते। वीरवीर्यौ च। पा० ६।२।१२०। उत्तरपदाद्युदात्तः। शोभनवीरोपेतः (येन) शूरेण (देवाः) विजयिनः (असहन्त) अभ्यभवन् (दस्यून्) चौरान्। महासाहसिकान् ॥

    इस भाष्य को एडिट करें
    Top