अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 31
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
ब॒भ्रेर॑ध्वर्यो॒ मुख॑मे॒तद्वि मृ॒ड्ढ्याज्या॑य लो॒कं कृ॑णुहि प्रवि॒द्वान्। घृ॒तेन॒ गात्रानु॒ सर्वा॒ वि मृ॑ड्ढि कृ॒ण्वे पन्थां॑ पि॒तृषु॒ यः स्व॒र्गः ॥
स्वर सहित पद पाठब॒भ्रे: । अ॒ध्व॒र्यो॒ इति॑ । मुख॑म् । ए॒तत् । वि । मृ॒ड्ढि॒ ।आज्या॑य । लो॒कम् । कृ॒णु॒हि॒ । प्र॒ऽवि॒द्वान् । घृ॒तेन॑ । गात्रा॑ । अनु॑ । सर्वा॑ । वि । मृ॒ड्ढि॒ । कृ॒ण्वे । पन्था॑म् । पि॒तृषु॑ । य: । स्व॒:ऽग: ॥१.३१॥
स्वर रहित मन्त्र
बभ्रेरध्वर्यो मुखमेतद्वि मृड्ढ्याज्याय लोकं कृणुहि प्रविद्वान्। घृतेन गात्रानु सर्वा वि मृड्ढि कृण्वे पन्थां पितृषु यः स्वर्गः ॥
स्वर रहित पद पाठबभ्रे: । अध्वर्यो इति । मुखम् । एतत् । वि । मृड्ढि ।आज्याय । लोकम् । कृणुहि । प्रऽविद्वान् । घृतेन । गात्रा । अनु । सर्वा । वि । मृड्ढि । कृण्वे । पन्थाम् । पितृषु । य: । स्व:ऽग: ॥१.३१॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 31
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३१−(बभ्रेः) आदृगमहनजनः किकिनौ लिट् च। पा० ३।२।१७१। डुभृञ् धारणपोषणयोः-कि प्रत्ययः। पोषकस्य। अन्नरूपस्य परमेश्वरस्य (अध्वर्यो) अ० ७।७३।५। न ध्वरति न हिनस्तीति अध्वरः। ध्वृ कौटिल्ये हिंसायां च-अच्। ध्वरतिर्वधकर्मा-निघ० २।१९। अध्वर+या प्रापणे-कु। हे अहिंसाप्रापक (मुखम्) उपरिदेशम् (एतत्) (विमृड्ढि) म० २९। विशेषेण शोधय भूषय (आज्याय) घृतमिश्रणाय (लोकम्) स्थानम् (कृणुहि) कुरु (प्रविद्वान्) प्रकर्षेण जानन् (घृतेन) सर्पिषा (गात्रा) अङ्गानि (अनु) अनुक्रमेण (सर्वा) सर्वाणि (विमृड्ढि) (कृण्वे) करोमि (पन्थाम्) पन्थानम् (पितृषु) पालकेषु। विज्ञानिषु (यः) (पन्थाः) (स्वर्गः) सुखस्य गमयिता ॥
इस भाष्य को एडिट करें