Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 16
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - ब्रह्मौदन सूक्त

    अग्ने॑ च॒रुर्य॒ज्ञिय॒स्त्वाध्य॑रुक्ष॒च्छुचि॒स्तपि॑ष्ठ॒स्तप॑सा तपैनम्। आ॑र्षे॒या दै॒वा अ॑भिसं॒गत्य॑ भा॒गमिमं तपि॑ष्ठा ऋ॒तुभि॑स्तपन्तु ॥

    स्वर सहित पद पाठ

    अग्ने॑ । च॒रु: । य॒ज्ञिय॑: । त्वा॒ । अधि॑ । अ॒रु॒क्ष॒त् । शुचि॑: । तपि॑ष्ठ: । तप॑सा । त॒प॒ । ए॒न॒म् । आ॒र्षे॒या: । दै॒वा: । अ॒भि॒ऽसं॒गत्य॑ । भा॒गम् । इ॒मम् । तपि॑ष्ठा: । ऋ॒तुऽभि॑: । त॒प॒न्तु॒ ॥१.१६॥


    स्वर रहित मन्त्र

    अग्ने चरुर्यज्ञियस्त्वाध्यरुक्षच्छुचिस्तपिष्ठस्तपसा तपैनम्। आर्षेया दैवा अभिसंगत्य भागमिमं तपिष्ठा ऋतुभिस्तपन्तु ॥

    स्वर रहित पद पाठ

    अग्ने । चरु: । यज्ञिय: । त्वा । अधि । अरुक्षत् । शुचि: । तपिष्ठ: । तपसा । तप । एनम् । आर्षेया: । दैवा: । अभिऽसंगत्य । भागम् । इमम् । तपिष्ठा: । ऋतुऽभि: । तपन्तु ॥१.१६॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 16

    टिप्पणीः - १६−(अग्ने) हे विद्वन् (चरुः) भृमृशीङ्तृचरि० उ० १।७। चर गतिभक्षणयोः-उ। चरुर्मेघनाम-निघ० १।१०। चरुर्मृच्चयो भवति चरतेर्वा समुचन्त्यस्मादापः-निरु० ६।११। चरुं ज्ञानलाभं मेघं वा-दयानन्दभाष्ये, ऋक्० १।७।६। बोधः (यज्ञियः) पूजार्हः (त्वा) ब्रह्मचारिणम् (अधि अरुक्षत्) उन्नतं कृतवान् (शुचिः) शुद्धस्वभावः (तपिष्ठः) तप्तृ-इष्ठन्। तुरिष्ठेमेयस्सु। पा० ६।४।१५४। तृलोपः। तप्तृतमः। अतिशयेन तपस्वी (तपसा) ब्रह्मचर्यादितपश्चरणेन (तप) तप्तमुपकृतं कुरु (एनम्) बोधम् (आर्षेयाः) ढश्छन्दसि। पा० ४।४।१०६। इति ऋषिः-ढ प्रत्ययो बाहुलकात्। ऋषिषु विख्यात आर्षेयः महीधरभाष्ये, यजु० ७।४६। आर्षेय, ऋषिषु साधुस्तत्सम्बुद्धौ-दयानन्दभाष्ये, यजु० २१।६१। ऋषिषु विख्याताः साधवो वा (दैवाः) दिव्यगुणयुक्ताः (अभिसंगत्य) सर्वतो मिलित्वा (भागम्) सेवनीयं बोधम् (इमम्) (तपिष्ठाः) तप्तृतमाः। तपस्वितमाः (ऋतुभिः) वसन्तादिकालविशेषैः (तपन्तु) तप्तमुपकृतं कुर्वन्तु ॥

    इस भाष्य को एडिट करें
    Top