अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 3
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - चतुष्पदा शाक्वरगर्भा जगती
सूक्तम् - ब्रह्मौदन सूक्त
अग्नेऽज॑निष्ठा मह॒ते वी॒र्याय ब्रह्मौद॒नाय॒ पक्त॑वे जातवेदः। स॑प्तऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑जीजनन्न॒स्यै र॒यिं सर्व॑वीरं॒ नि य॑च्छ ॥
स्वर सहित पद पाठअग्ने॑ । अज॑निष्ठा:: । म॒ह॒ते । वी॒र्या᳡य । ब्र॒ह्म॒ऽओद॒नाय॑ । पक्त॑वे । जा॒त॒ऽवे॒द॒: । स॒प्त॒ऽऋ॒षय॑: । भू॒त॒ऽकृत॑: । ते । त्वा॒ । अ॒जी॒ज॒न॒न् । अ॒स्यै । र॒यिम् । सर्व॑ऽवीरम् । नि । य॒च्छ॒ ॥१.३॥
स्वर रहित मन्त्र
अग्नेऽजनिष्ठा महते वीर्याय ब्रह्मौदनाय पक्तवे जातवेदः। सप्तऋषयो भूतकृतस्ते त्वाजीजनन्नस्यै रयिं सर्ववीरं नि यच्छ ॥
स्वर रहित पद पाठअग्ने । अजनिष्ठा:: । महते । वीर्याय । ब्रह्मऽओदनाय । पक्तवे । जातऽवेद: । सप्तऽऋषय: । भूतऽकृत: । ते । त्वा । अजीजनन् । अस्यै । रयिम् । सर्वऽवीरम् । नि । यच्छ ॥१.३॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 3
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३−(अग्ने) हे तेजस्विन् (अजनिष्ठा) त्वमुत्पन्नोऽसि (महते) प्रभूताय (वीर्याय) वीरकर्मणे (ब्रह्मौदनाय) म० १। ब्रह्मणो वेदज्ञानस्य, अन्नस्य धनस्य वा सेचकाय वर्षकाय। परमेश्वराय (पक्तवे) डुपचष् पाके-तवेन्। पक्तुम्। मनसि दृढीकर्तुम् (जातवेदः) अ० १।७।२। हे प्रसिद्धज्ञानयुक्त (अजीजनन्) जनेर्ण्यन्ताल्लुङि चङि रूपम्। प्रसिद्धं कृतवन्तः (अस्यै) प्रजायै-म० १। (रयिम्) धनम् (सर्ववीरम्) सर्वैर्वीरैर्युक्तम् (नि) नियमेन (यच्छ) दाण् दाने-लोट्। देहि। अन्यत् पूर्ववत्-म० १ ॥
इस भाष्य को एडिट करें