अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 4
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - भुरिक्त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
समि॑द्धो अग्ने स॒मिधा॒ समि॑ध्यस्व वि॒द्वान्दे॒वान्य॒ज्ञियाँ॒ एह व॑क्षः। तेभ्यो॑ ह॒विः श्र॒पयं॑ जातवेद उत्त॒मं नाक॒मधि॑ रोहये॒मम् ॥
स्वर सहित पद पाठसम्ऽइ॑ध्द: । अ॒ग्ने॒ । स॒म्ऽइधा॑ । सम् । इ॒ध्य॒स्व॒ । वि॒द्वान् । दे॒वान् । य॒ज्ञिया॑न् । आ । इ॒ह । व॒क्ष: । तेभ्य॑: । ह॒वि: । श्र॒पय॑न् । जा॒त॒ऽवे॒द॒: । उ॒त्ऽत॒मम् । नाक॑म् । अधि॑ । रो॒ह॒य॒ । इ॒मम् ॥१.४॥
स्वर रहित मन्त्र
समिद्धो अग्ने समिधा समिध्यस्व विद्वान्देवान्यज्ञियाँ एह वक्षः। तेभ्यो हविः श्रपयं जातवेद उत्तमं नाकमधि रोहयेमम् ॥
स्वर रहित पद पाठसम्ऽइध्द: । अग्ने । सम्ऽइधा । सम् । इध्यस्व । विद्वान् । देवान् । यज्ञियान् । आ । इह । वक्ष: । तेभ्य: । हवि: । श्रपयन् । जातऽवेद: । उत्ऽतमम् । नाकम् । अधि । रोहय । इमम् ॥१.४॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 4
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४−(समिद्धः) प्रदीप्तोऽग्निर्यथा (अग्ने) हे तेजस्विन् पुरुष (समिधा) काष्ठादिप्रज्वलनसाधनेन (सम्) सम्यक् (इध्यस्व) ञिइन्धी दीप्तौ, रुधादिः, दिवादित्वं छान्दसम्। इन्त्स्व। दीप्यस्व (विद्वान्) विदन्। जानन् (देवान्) विजयिनो जनान् (यज्ञियान्) यज्ञ-घ। पूजार्हान् (इह) अस्मिन् पदे (आ वक्षः) वहेर्लेटि, अडागमः। सिब्बहुलं लेटि। पा० ३।१।३४। इति सिप्, ढत्वकत्वषत्वानि। आवहेः (तेभ्यः) विद्वद्भ्यः (हविः) देयं वस्तु (श्रपयन्) श्रा पाके ण्यन्तात् शतृ आकारान्तलक्षणे पुकि कृते घटादिपाठात्। मितां ह्रस्वः। पा० ६।४।९२। उपधाह्रस्वः। पचन्। दृढीकुर्वन् (जातवेदः) हे प्रसिद्धधन (उत्तमम्) उत्कृष्टम् (नाकम्) आनन्दम् (अधि) उपरि (रोहय) प्रापय (इमम्) प्राणिनं प्रजागणं वा ॥
इस भाष्य को एडिट करें