Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 37
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - विराड्जगती सूक्तम् - ब्रह्मौदन सूक्त

    येन॑ दे॒वा ज्योति॑षा॒ द्यामु॒दाय॑न्ब्रह्मौद॒नं प॒क्त्वा सु॑कृ॒तस्य॑ लो॒कम्। तेन॑ गेष्म सुकृ॒तस्य॑ लो॒कं स्वरा॒रोह॑न्तो अ॒भि नाक॑मुत्त॒मम् ॥

    स्वर सहित पद पाठ

    येन॑ । दे॒वा: । ज्योति॑षा । द्याम् । उ॒त्ऽआय॑न् । ब्र॒ह्म॒ऽओ॒द॒नम् । प॒क्त्वा । सु॒ऽकृ॒तस्य॑ । लो॒कम् । तेन॑ । गे॒ष्म॒ । सु॒ऽकृ॒तस्य॑ । लो॒कम् । स्व॑: । आ॒ऽरोह॑न्त: । अ॒भि । नाक॑म् । उ॒त्ऽत॒मम् ॥१.३७॥


    स्वर रहित मन्त्र

    येन देवा ज्योतिषा द्यामुदायन्ब्रह्मौदनं पक्त्वा सुकृतस्य लोकम्। तेन गेष्म सुकृतस्य लोकं स्वरारोहन्तो अभि नाकमुत्तमम् ॥

    स्वर रहित पद पाठ

    येन । देवा: । ज्योतिषा । द्याम् । उत्ऽआयन् । ब्रह्मऽओदनम् । पक्त्वा । सुऽकृतस्य । लोकम् । तेन । गेष्म । सुऽकृतस्य । लोकम् । स्व: । आऽरोहन्त: । अभि । नाकम् । उत्ऽतमम् ॥१.३७॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 37

    टिप्पणीः - ३७−(येन) (देवाः) विजिगीषवः (ज्योतिषा) प्रकाशेन (द्याम्) प्रकाशमानम् (उदायन्) इण् गतौ-लङ्। उदगच्छन् (ब्रह्मौदनम्) म० १। ब्रह्मणो वेदज्ञानस्यान्नस्य धनस्य वा सेचकं वर्षकं परमात्मानम् (पक्त्वा) दृढं कृत्वा (सुकृतस्य) सुकर्मणः (लोकम्) समाजम् (गेष्म) गेषृ अन्विच्छायाम्-लोट्। गेषामहै। अन्वेषणेन प्राप्नवामः। अन्यत् पूर्ववत्-अ० ४।१४।६ ॥

    इस भाष्य को एडिट करें
    Top