Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 22
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - त्रिष्टुप् सूक्तम् - ब्रह्मौदन सूक्त

    अ॒भ्याव॑र्तस्व प॒शुभिः॑ स॒हैनां॑ प्र॒त्यङे॑नां दे॒वता॑भिः स॒हैधि॑। मा त्वा॒ प्राप॑च्छ॒पथो॒ माभि॑चा॒रः स्वे क्षेत्रे॑ अनमी॒वा वि रा॑ज ॥

    स्वर सहित पद पाठ

    अ॒भि॒ऽआव॑र्तस्व । प॒शुऽभि॑: । स॒ह । ए॒ना॒म् । प्र॒त्यङ् । ए॒ना॒म् । दे॒वता॑भि: । स॒ह । ए॒धि॒ । मा । त्वा॒ । प्र । आ॒प॒त् । श॒पथ॑: । मा । अ॒भि॒ऽचा॒र: । स्वे । क्षेत्रे॑ । अ॒न॒मी॒वा । वि । रा॒ज॒ ॥१.२२॥


    स्वर रहित मन्त्र

    अभ्यावर्तस्व पशुभिः सहैनां प्रत्यङेनां देवताभिः सहैधि। मा त्वा प्रापच्छपथो माभिचारः स्वे क्षेत्रे अनमीवा वि राज ॥

    स्वर रहित पद पाठ

    अभिऽआवर्तस्व । पशुऽभि: । सह । एनाम् । प्रत्यङ् । एनाम् । देवताभि: । सह । एधि । मा । त्वा । प्र । आपत् । शपथ: । मा । अभिऽचार: । स्वे । क्षेत्रे । अनमीवा । वि । राज ॥१.२२॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 22

    टिप्पणीः - २२−(अभ्यावर्तस्व) अभिलक्ष्य वर्तनं कुरु (पशुभिः) अ० १।३०।३। पशवो व्यक्तवाचश्चाव्यक्तवाचश्च-निरु० ११।२९। द्रष्टृभिः प्राणिभिः (सह) (एनाम्) प्रजाम् (प्रत्यङ्) प्रत्यञ्चन्, आभिमुख्येन गच्छन् (एनाम्) (देवताभिः) विजिगीषाभिः (सह) (एधि) भव। वर्तस्व (मा प्रापत्) मा प्राप्नोतु (त्वा) (शपथः) शापः (मा) निषेधे (अभिचारः) विरुद्धाचारः (स्वे) स्वकीये (क्षेत्रे) अधिकारे (अनमीवा) रोगरहिता सती (वि) विविधम् (राज) शासनं कुरु ॥

    इस भाष्य को एडिट करें
    Top