अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 34
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - त्रिष्टुप्
सूक्तम् - ब्रह्मौदन सूक्त
य॒ज्ञं दुहा॑नं॒ सद॒मित्प्रपी॑नं॒ पुमां॑सं धे॒नुं सद॑नं रयी॒णाम्। प्र॑जामृत॒त्वमु॒त दी॒र्घमायू॑ रा॒यश्च॒ पोषै॒रुप॑ त्वा सदेम ॥
स्वर सहित पद पाठय॒ज्ञम् । दुहा॑नम् । सद॑म् । इत् । प्रऽपी॑नम् । पुमां॑सम् । धे॒नुम् । सद॑नम् । र॒यी॒णाम् । प्र॒जा॒ऽअ॒मृ॒त॒त्वम् । उ॒त । दी॒र्घम् । आयु॑: । रा॒य: । च॒ । पोषै॑: । उप॑ । त्वा॒ । स॒दे॒म॒ ॥१.३४॥
स्वर रहित मन्त्र
यज्ञं दुहानं सदमित्प्रपीनं पुमांसं धेनुं सदनं रयीणाम्। प्रजामृतत्वमुत दीर्घमायू रायश्च पोषैरुप त्वा सदेम ॥
स्वर रहित पद पाठयज्ञम् । दुहानम् । सदम् । इत् । प्रऽपीनम् । पुमांसम् । धेनुम् । सदनम् । रयीणाम् । प्रजाऽअमृतत्वम् । उत । दीर्घम् । आयु: । राय: । च । पोषै: । उप । त्वा । सदेम ॥१.३४॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 34
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३४−(यज्ञम्) पूजनीयं व्यवहारम् (दुहानम्) दुह प्रपूरणे-शानच्। प्रपूरयन्तम् (सदम्) सदा (इत्) एव (प्रपीतम्) ओप्यायी वृद्धौ-क्त। प्रवृद्धं समृद्धम् (पुमांसम्) अ० १।८।१। पा रक्षणे- डुमसुन्। पातारं रक्षकं पुरुषम् (धेनुम्) अ० ३।१०।१। धि धारणतर्पणयोः-नु। धेनुर्वाङ्नाम-निघ० ११।४२। तर्पयित्रीं वाचं विद्याङ्गां वा (सदनम्) गृहम् (रयीणाम्) धनानाम् (प्रजामृतत्वम्) जनतायाः) सन्तानस्य वा मृत्युराहित्यम् (उत) अपि (दीर्घम्) प्रवृद्धम् (आयुः) जीवनम् (रायः) धनस्य (च) अवधारणे (पोषैः) समृद्धिभिः सह (उप) आदरेण (त्वा) त्वां परमात्मानम् (सदेम) षद्लृ गतौ-आशीर्लिङ्। लिङ्याशिष्यङ् पा० ३।१।८६। इत्यङ्। सद्यास्म। गम्यास्म ॥
इस भाष्य को एडिट करें