Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 1
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - अनुष्टुब्गर्भा भुरिक्पङ्क्तिः सूक्तम् - ब्रह्मौदन सूक्त

    अग्ने॒ जाय॒स्वादि॑तिर्नाथि॒तेयं ब्र॑ह्मौद॒नं प॑चति पु॒त्रका॑मा। स॑प्तऋ॒षयो॑ भूत॒कृत॒स्ते त्वा॑ मन्थन्तु प्र॒जया॑ स॒हेह॑ ॥

    स्वर सहित पद पाठ

    अग्ने॑ । जाय॑स्व । अदि॑ति: । ना॒थि॒ता । इ॒यम् । ब्र॒ह्म॒ऽओ॒द॒नम् । प॒च॒ति॒ । पु॒त्रऽका॑मा । स॒प्त॒ऽऋ॒षय॑: । भू॒त॒ऽकृत॑: । ते । त्व‍ा॒ । म॒न्थ॒न्तु॒ । प्र॒ऽजया॑ । स॒ह । इ॒ह ॥१.१॥


    स्वर रहित मन्त्र

    अग्ने जायस्वादितिर्नाथितेयं ब्रह्मौदनं पचति पुत्रकामा। सप्तऋषयो भूतकृतस्ते त्वा मन्थन्तु प्रजया सहेह ॥

    स्वर रहित पद पाठ

    अग्ने । जायस्व । अदिति: । नाथिता । इयम् । ब्रह्मऽओदनम् । पचति । पुत्रऽकामा । सप्तऽऋषय: । भूतऽकृत: । ते । त्व‍ा । मन्थन्तु । प्रऽजया । सह । इह ॥१.१॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 1

    टिप्पणीः - १−(अग्ने) हे तेजस्विन् विद्वन् (जायस्व) प्रसिद्धो भव (अदितिः) अ० २।२८।४। दो अवखण्डने, दीङ् क्षये वा-क्तिन्, नञ्समासः। अदितिरदीना देवमाता-निरु० ४।२२। अखण्डव्रताऽदीना स्त्री (नाथिता) अ० ४।२३।७। नाथ-इतच्, टाप्। नाथवती समभर्तृका (इयम्) प्रसिद्धा (ब्रह्मौदनम्) अ० ४।३५।७। बृंहेर्नोऽच्च। उ० ४।१४६। बृहि वृद्धौ-मनिन्, नकारस्य अकारः, रत्वं च। ब्रह्म, अन्नम् निघ० २।७। ब्रह्म धनम्-निघ० २।१०। उन्देर्नलोपश्च उ० २।७६। उन्दी क्लेदने-युच्। ओदनो मेघः-निघ० १।१०। ओदनमुदकदानं मेघम्-निरु० ६।३४। ब्रह्मणो वेदज्ञानस्यान्नस्य धनस्य वा सेचकं वर्षकं परमात्मानम् (पचति) पक्वं मनसि दृढं करोति (पुत्रकामा) शीलिकामिभक्ष्याचरिभ्यो णः। वा० पा–० ३।२।१। कामेर्णप्रत्ययः। पुत्रादीन् कामयमाना (सप्तऋषयः) अ० ४।११।९। ऋष गतौ दर्शने च-इन्। ऋत्यकः। पा० ६।१।१२८। इति प्रकृतिभावः। सप्त ऋषयः प्रतिहिताः शरीरे-यजु० ३४।५५। सप्त ऋषयः षडिन्द्रियाणि विद्या सप्तमी-निरु० १२।३७। त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयः (भूतकृतः) अ० ६।१०८।४। भूतमुचितं कर्म कुर्वन्ति ते (ते) प्रसिद्धाः (त्वा) त्वां विद्वांसम् (मन्थन्तु) विलोडयन्तु। प्रवर्तयन्तु (प्रजया) प्रजागणेन (सह) साकम् (इह) अस्मिन् गृहाश्रमे ॥

    इस भाष्य को एडिट करें
    Top