अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 10
सूक्त - ब्रह्मा
देवता - ब्रह्मौदनः
छन्दः - पुरोऽतिजगती विराड्जगती
सूक्तम् - ब्रह्मौदन सूक्त
गृ॑हा॒ण ग्रावा॑णौ स॒कृतौ॑ वीर॒ हस्त॒ आ ते॑ दे॒वा य॒ज्ञिया॑ य॒ज्ञम॑गुः। त्रयो॒ वरा॑ यत॒मांस्त्वं वृ॑णी॒षे तास्ते॒ समृ॑द्धीरि॒ह रा॑धयामि ॥
स्वर सहित पद पाठगृ॒हा॒ण । ग्रावा॑णौ । स॒ऽकृतौ॑ । वी॒र॒ । हस्ते॑ । आ । ते॒ । दे॒वा: । य॒ज्ञिया॑: । य॒ज्ञम् । अ॒गु: । त्रय॑: । वरा॑: । य॒त॒मान् । त्वम् । वृ॒णी॒षे । ता: । ते॒ । सम्ऽऋ॑ध्दी: । इ॒ह । रा॒ध॒या॒मि॒ ॥१.१०॥
स्वर रहित मन्त्र
गृहाण ग्रावाणौ सकृतौ वीर हस्त आ ते देवा यज्ञिया यज्ञमगुः। त्रयो वरा यतमांस्त्वं वृणीषे तास्ते समृद्धीरिह राधयामि ॥
स्वर रहित पद पाठगृहाण । ग्रावाणौ । सऽकृतौ । वीर । हस्ते । आ । ते । देवा: । यज्ञिया: । यज्ञम् । अगु: । त्रय: । वरा: । यतमान् । त्वम् । वृणीषे । ता: । ते । सम्ऽऋध्दी: । इह । राधयामि ॥१.१०॥
अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 10
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १०−(गृहाण) स्वीकुरु (ग्रावाणौ) म० ९। अवहननपाषाणौ (सकृतौ) सहकर्मकर्तारौ (वीर) हे शूर (हस्ते) करे (ते) तव (देवाः) विजिगीषवः (यज्ञियाः) पूजार्हाः (यज्ञम्) श्रेष्ठव्यवहारम् (आ अगुः) इण् गतौ-लुङ्। आगमन् (त्रयः) स्थाननामजन्मरूपाः (वराः) वरणीयाः। प्रार्थनीयाः पदार्थाः (यतमान्) बहुषु यान् वरान् (त्वम्) (वृणीषे) याचसे (ताः) (ते) तुभ्यम् (समृद्धीः) सम्पत्तीः (इह) संसारे (राधयामि) संसाधयामि ॥
इस भाष्य को एडिट करें