Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 11/ सूक्त 1/ मन्त्र 35
    सूक्त - ब्रह्मा देवता - ब्रह्मौदनः छन्दः - चतुष्पदा ककुम्मत्युष्णिक् सूक्तम् - ब्रह्मौदन सूक्त

    वृ॑ष॒भोसि॑ स्व॒र्ग ऋषी॑नार्षे॒यान्ग॑च्छ। सु॒कृतां॑ लो॒के सी॑द॒ तत्र॑ नौ संस्कृ॒तम् ॥

    स्वर सहित पद पाठ

    वृ॒ष॒भ: । अ॒सि॒ । स्व॒:ऽग: । ऋषी॑न् । आ॒र्षे॒यान् । ग॒च्छ॒ । सु॒ऽकृता॑म् । लो॒के । सी॒द॒ । तत्र॑ । नौ॒ । सं॒स्कृ॒तम् ॥१.३५॥


    स्वर रहित मन्त्र

    वृषभोसि स्वर्ग ऋषीनार्षेयान्गच्छ। सुकृतां लोके सीद तत्र नौ संस्कृतम् ॥

    स्वर रहित पद पाठ

    वृषभ: । असि । स्व:ऽग: । ऋषीन् । आर्षेयान् । गच्छ । सुऽकृताम् । लोके । सीद । तत्र । नौ । संस्कृतम् ॥१.३५॥

    अथर्ववेद - काण्ड » 11; सूक्त » 1; मन्त्र » 35

    टिप्पणीः - ३५−(वृषभः) अ० ४।५।१। वृषु प्रजनैश्ययोः-अभच्, कित्। महाबली (असि) (स्वर्गः) सुखस्य गमयिता (ऋषीन्) सूक्ष्मदर्शिनः पुरुषान् (आर्षेयान्) म० १३। ऋषिषु विख्यातान् (गच्छ) प्राप्नुहि (सुकृताम्) सुकर्मिणाम् (लोके) समाजे (सीद) तिष्ठ (तत्र) समाजे (नौ) आवयोः। मम च तव च (संस्कृतम्) संस्कारः ॥

    इस भाष्य को एडिट करें
    Top