Loading...

2847 परिणाम मिले!

  • अध त्यंद्रप्सं विभ्वं विचक्षणं विराभरदिषिरः श्येनो अध्वरे। यदी विशोवृणते दस्ममार्या अग्निं होतारमध धीरजायत ॥ - Atharvaveda/18/1/0/21
  • अध त्वमिन्द्र विद्ध्य१स्मान्महो राये नृपते वज्रबाहुः । रक्षा च नो मघोन: पाहि सूरीननेहसस्ते हरिवो अभिष्टौ ॥ - Rigveda/10/61/22
  • अध त्वष्टा ते मह उग्र वज्रं सहस्रभृष्टिं ववृतच्छताश्रिम्। निकाममरमणसं येन नवन्तमहिं सं पिणगृजीषिन् ॥१०॥ - Rigveda/6/17/10
  • अध त्वा विश्वे पुर इन्द्र देवा एकं तवसं दधिरे भराय। अदेवो यदभ्यौहिष्ट देवान्त्स्वर्षाता वृणत इन्द्रमत्र ॥८॥ - Rigveda/6/17/8
  • अध त्विषीमाँ अभ्योजसा क्रिविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे। अधत्तान्यं जठरे प्रेमरिच्यत सैनं सश्चद्देवो देवं सत्यमिन्द्रं सत्य इन्दुः॥ - Rigveda/2/22/2
  • अध त्विषीमाꣳ अभ्योजसा कृविं युधाभवदा रोदसी अपृणदस्य मज्मना प्र वावृधे । अधत्तान्यं जठरे प्रेमरिच्यत प्र चेतय सैनꣳ सश्चद्देवो देवꣳ सत्य इन्दुः सत्यमिन्द्रम् ॥१४८८॥ - Samveda/1488
  • अध द्युतानः पित्रोः सचासामनुत गुह्यं चारु पृश्नेः। मातुष्पदे परमे अन्ति षद्गोर्वृष्णः शोचिषः प्रयतस्य जिह्वा ॥१०॥ - Rigveda/4/5/10
  • अध द्यौश्चित्ते अप सा नु वज्राद्द्वितानमद्भियसा स्वस्य मन्योः। अहिं यदिन्द्रो अभ्योहसानं नि चिद्विश्वायुः शयथे जघान ॥९॥ - Rigveda/6/17/9
  • अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः । विशो अदेवीरभ्या३चरन्तीर्बृहस्पतिना युजेन्द्र: ससाहे ॥ - Rigveda/8/96/15
  • अध द्रप्सो अंशुमत्या उपस्थेऽधारयत्तन्वं तित्विषाणः। विशो अदेवीरभ्याचरन्तीर्बृहस्पतिना युजेन्द्रः ससाहे ॥ - Atharvaveda/20/137/0/9
  • अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः । इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥ - Rigveda/9/97/11
  • अध धारया मध्वा पृचानस्तिरो रोम पवते अद्रिदुग्धः । इन्दुरिन्द्रस्य सख्यं जुषाणो देवो देवस्य मत्सरो मदाय ॥१०२०॥ - Samveda/1020
  • अधः पश्यस्व मोपरि संतरां पादकौ हर । मा ते कशप्लकौ दृशन्त्स्त्री हि ब्रह्मा बभूविथ ॥ - Rigveda/8/33/19
  • अध प्र जज्ञे तरणिर्ममत्तु प्र रोच्यस्या उषसो न सूर:। इन्दुर्येभिराष्ट स्वेदुहव्यैः स्रुवेण सिञ्चञ्जरणाभि धाम ॥ - Rigveda/1/121/6
  • अध प्रियमिषिराय षष्टिं सहस्रासनम् । अश्वानामिन्न वृष्णाम् ॥ - Rigveda/8/46/29
  • अध प्लायोगिरति दासदन्यानासङ्गो अग्ने दशभि: सहस्रै: । अधोक्षणो दश मह्यं रुशन्तो नळा इव सरसो निरतिष्ठन् ॥ - Rigveda/8/1/33
  • अध यच्चारथे गणे शतमुष्ट्राँ अचिक्रदत् । अध श्वित्नेषु विंशतिं शता ॥ - Rigveda/8/46/31
  • अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । यूथे न निष्ठा वृषभो वि तिष्ठसे ॥ - Rigveda/9/110/9
  • अध यदिमे पवमान रोदसी इमा च विश्वा भुवनाभि मज्मना । यूथे न निष्ठा वृषभो वि राजसि ॥१४९६॥ - Samveda/1496
  • अध यद्राजाना गविष्टौ सरत्सरण्युः कारवे जरण्युः । विप्र: प्रेष्ठ: स ह्येषां बभूव परा च वक्षदुत पर्षदेनान् ॥ - Rigveda/10/61/23
  • अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु। अक्षौ वृकस्य निर्जह्यास्तेन तं द्रुपदे जहि ॥ - Atharvaveda/19/50/0/1
  • अध रात्रि तृष्टधूममशीर्षाणमहिं कृणु। हनू वृकस्य जम्भयास्तेनं द्रुपदे जहि ॥ - Atharvaveda/19/47/0/8
  • अध श्रुतं कवषं वृद्धमप्स्वनु द्रुह्युं नि वृणग्वज्रबाहुः। वृणाना अत्र सख्याय सख्यं त्वायन्तो ये अमदन्ननु त्वा ॥१२॥ - Rigveda/7/18/12
  • अध श्वेतं कलशं गोभिरक्तं कार्ष्मन्ना वाज्यक्रमीत्ससवान् । आ हिन्विरे मनसा देवयन्त: कक्षीवते शतहिमाय गोनाम् ॥ - Rigveda/9/74/8
  • अध श्वेतं कलशं गोभिरक्तमापिप्यानं मघवा शुक्रमन्धः। अध्वर्युभिः प्रयतं मध्वो अग्रमिन्द्रो मदाय प्रति धत्पिबध्यै शूरो मदाय प्रति धत्पिबध्यै ॥५॥ - Rigveda/4/27/5
  • अध स्म यस्यार्चयः सम्यक्संयन्ति धूमिनः। यदीमह त्रितो दिव्युप ध्मातेव धमति शिशीते ध्मातरी यथा ॥५॥ - Rigveda/5/9/5
  • अध स्मा ते चर्षणयो यदेजानिन्द्र त्रातोत भवा वरूता। अस्माकासो ये नृतमासो अर्य इन्द्र सूरयो दधिरे पुरो नः ॥७॥ - Rigveda/6/25/7
  • अध स्मा न उदवता सजोषसो रथं देवासो अभि विक्षु वाजयुम्। यदाशवः पद्याभिस्तित्रतो रजः पृथिव्याः सानौ जङ्घनन्त पाणिभिः॥ - Rigveda/2/31/2
  • अध स्मा नो वृधे भवेन्द्र नायमवा युधि। यदन्तरिक्षे पतयन्ति पर्णिनो दिद्यवस्तिग्ममूर्धानः ॥११॥ - Rigveda/6/46/11
  • अध स्मास्य पनयन्ति भासो वृथा यत्तक्षदनुयाति पृथ्वीम्। सद्यो यः स्यन्द्रो विषितो धवीयानृणो न तायुरति धन्वा राट् ॥५॥ - Rigveda/6/12/5
  • अध स्या योषणा मही प्रतीची वशमश्व्यम् । अधिरुक्मा वि नीयते ॥ - Rigveda/8/46/33
  • अध स्वनादुत बिभ्युः पतत्रिणो द्रप्सा यत्ते यवसादो व्यस्थिरन्। सुगं तत्ते तावकेभ्यो रथेभ्योऽग्ने सख्ये मा रिषामा वयं तव ॥ - Rigveda/1/94/11
  • अध स्वनान्मरुतां विश्वमा सद्म पार्थिवम् । अरेजन्त प्र मानुषाः ॥ - Rigveda/1/38/10
  • अध स्वप्नस्य निर्विदेऽभुञ्जतश्च रेवत:। उभा ता बस्रि नश्यतः ॥ - Rigveda/1/120/12
  • अधराञ्चं प्र हिणोमि नमः कृत्वा तक्मने। शकम्भरस्य मुष्टिहा पुनरेतु महावृषान् ॥ - Atharvaveda/5/22/0/4
  • अधरोऽधर उत्तरेभ्यो गूढः पृथिव्या मोत्सृपत्। वज्रेणावहतः शयाम् ॥ - Atharvaveda/6/134/0/2
  • अधा गाव उपमातिं कनाया अनु श्वान्तस्य कस्य चित्परेयुः । श्रुधि त्वं सुद्रविणो नस्त्वं याळाश्वघ्नस्य वावृधे सूनृताभिः ॥ - Rigveda/10/61/21
  • अधा चिन्नु यद्दिधिषामहे वामभि प्रियं रेक्ण: पत्यमानाः । दद्वाँ वा यत्पुष्यति रेक्ण: सम्वारन्नकिरस्य मघानि ॥ - Rigveda/10/132/3
  • अधा ते अप्रतिष्कुतं देवी शुष्मं सपर्यतः । उभे सुशिप्र रोदसी ॥ - Rigveda/8/93/12
  • अधा त्वं हि नस्करो विश्वा अस्मभ्यं सुक्षितीः । वाजद्रविणसो गिर: ॥ - Rigveda/8/84/6
  • अधा त्वं हि नस्करो विश्वा अस्मभ्यꣳ सुक्षितीः । वाजद्रविणसो गिरः ॥१५५१॥ - Samveda/1551
  • अधा नरो न्योहतेऽधा नियुत ओहते। अधा पारावता इति चित्रा रूपाणि दर्श्या ॥११॥ - Rigveda/5/52/11
  • अधा नो विश्वसौभग हिरण्यवाशीमत्तम । धनानि सुषणा कृधि ॥ - Rigveda/1/42/6
  • अधा न्वस्य जेन्यस्य पुष्टौ वृथा रेभन्त ईमहे तदू नु । सरण्युरस्य सूनुरश्वो विप्रश्चासि श्रवसश्च सातौ ॥ - Rigveda/10/61/24
  • अधा न्वस्य संदृशं जगन्वानग्नेरनीकं वरुणस्य मंसि । स्व१र्यदश्मन्नधिपा उ अन्धोऽभि मा वपुर्दृशये निनीयात् ॥ - Rigveda/7/88/2
  • अधा मन्ये बृहदसुर्यमस्य यानि दाधार नकिरा मिनाति। दिवेदिवे सूर्यो दर्शतो भूद्वि सद्मान्युर्विया सुक्रतुर्धात् ॥२॥ - Rigveda/6/30/2
  • अधा मन्ये श्रत्ते अस्मा अधायि वृषा चोदस्व महते धनाय। मा नो अकृते पुरुहूत योनाविन्द्र क्षुध्यद्भ्यो वय आसुतिं दा: ॥ - Rigveda/1/104/7
  • अधा मही न आयस्यनाधृष्टो नृपीतये। पूर्भवा शतभुजिः ॥१४॥ - Rigveda/7/15/14
  • अधा मातुरुषसः सप्त विप्रा जायेमहि प्रथमा वेधसो नॄन्। दिवस्पुत्रा अङ्गिरसो भवेमाद्रिं रुजेम धनिनं शुचन्तः ॥१५॥ - Rigveda/4/2/15
  • अधा यथा नः पितरः परासः प्रत्नासो अग्न ऋतमाशुषाणाः। शुचीदयन्दीधितिमुक्थशासः क्षामा भिन्दन्तो अरुणीरप व्रन् ॥१६॥ - Rigveda/4/2/16
Top