Loading...

2847 परिणाम मिले!

  • अनेहो दात्रमदितेरनर्वं हुवे स्वर्वदवधं नमस्वत्। तद्रोदसी जनयतं जरित्रे द्यावा रक्षतं पृथिवी नो अभ्वात् ॥ - Rigveda/1/185/3
  • अनेहो न उरुव्रज उरूचि वि प्रसर्तवे । कृधि तोकाय जीवसे ॥ - Rigveda/8/67/12
  • अनेहो मित्रार्यमन्नृवद्वरुण शंस्यम् । त्रिवरूथं मरुतो यन्त नश्छर्दिः ॥ - Rigveda/8/18/21
  • अन्तकाय मृत्यवे नमः प्राणा अपाना इह ते रमन्ताम्। इहायमस्तु पुरुषः सहासुना सूर्यस्य भागे अमृतस्य लोके ॥ - Atharvaveda/8/1/0/1
  • अन्तकोऽसिमृत्युरसि ॥ - Atharvaveda/16/5/0/2
  • अन्तकोऽसिमृत्युरसि ॥ - Atharvaveda/16/5/0/9
  • अन्तरग्ने रुचा त्वमुखायाः सदने स्वे । तस्यास्त्वँ हरसा तपञ्जातवेदः शिवो भव ॥ - Yajurveda/12/16
  • अन्तरा द्यां च पृथिवीं च यद्व्यचस्तेन शालां प्रति गृह्णामि त इमाम्। यदन्तरिक्षं रजसो विमानं तत्कृण्वेऽहमुदरं शेवधिभ्यः। तेन शालां प्रति गृह्णामि तस्मै ॥ - Atharvaveda/9/3/0/15
  • अन्तरा मित्रावरुणा चरन्ती मुखँयज्ञानामभिसँविदाने । उषासा वाँ सुहिरण्ये सुशिल्पेऽऋतस्य योनाविह सादयामि ॥ - Yajurveda/29/6
  • अन्तरिक्ष आसां स्थाम श्रान्तसदामिव। आस्थानमस्य भूतस्य विदुष्टद्वेधसो न वा ॥ - Atharvaveda/1/32/0/2
  • अन्तरिक्षं जालमासीज्जालदण्डा दिशो महीः। तेनाभिधाय दस्यूनां शक्रः सेनामपावपत् ॥ - Atharvaveda/8/8/0/5
  • अन्तरिक्षं दिवं भूमिमादित्यान्मरुतो दिशः। लोकान्त्स सर्वानाप्नोति यो ददाति शतौदनाम् ॥ - Atharvaveda/10/9/0/10
  • अन्तरिक्षं धेनुस्तस्या वायुर्वत्सः। सा मे वायुना वत्सेनेषमूर्जं कामं दुहाम्। आयुः प्रथमं प्रजां पोषं रयिं स्वाहा ॥ - Atharvaveda/4/39/0/4
  • अन्तरिक्षप्रां रजसो विमानीमुप शिक्षाम्युर्वशीं वसिष्ठः । उप त्वा रातिः सुकृतस्य तिष्ठान्नि वर्तस्व हृदयं तप्यते मे ॥ - Rigveda/10/95/17
  • अन्तरिक्षाय स्वाहा ॥ - Atharvaveda/5/9/0/3
  • अन्तरिक्षाय स्वाहा ॥ - Atharvaveda/5/9/0/4
  • अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाह: । अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आ बभूव ॥ - Rigveda/10/168/3
  • अन्तरिक्षे वायवे समनमन्त्स आर्ध्नोत्। यथान्तरिक्षे वायवे समनमन्नेवा मह्यं संनमः सं नमन्तु ॥ - Atharvaveda/4/39/0/3
  • अन्तरिक्षेण पतति विश्वा भूतावचाकशत्। शुनो दिव्यस्य यन्महस्तेना ते हविषा विधेम ॥ - Atharvaveda/6/80/0/1
  • अन्तरिक्षेण पतति विश्वा रूपावचाकशत् । मुनिर्देवस्यदेवस्य सौकृत्याय सखा हितः ॥ - Rigveda/10/136/4
  • अन्तरिक्षेण सह वाजिनीवन्कर्कीं वत्सामिह रक्ष वाजिन्। अयं घासो अयं व्रज इह वत्सां नि बध्नीमः। यथानाम व ईश्महे स्वाहा ॥ - Atharvaveda/4/38/0/7
  • अन्तरिक्षेण सह वाजिनीवन्कर्कीं वत्सामिह रक्ष वाजिन्। इमे ते स्तोका बहुला एह्यर्वाङियं ते कर्कीह ते मनोऽस्तु ॥ - Atharvaveda/4/38/0/6
  • अन्तरिच्छन्ति तं जने रुद्रं परो मनीषया । गृभ्णन्ति जिह्वया ससम् ॥ - Rigveda/8/72/3
  • अन्तरेमे नभसी घोषो अस्तु पृथक्ते ध्वनयो यन्तु शीभम्। अभि क्रन्द स्तनयोत्पिपानः श्लोककृन्मित्रतूर्याय स्वर्धी ॥ - Atharvaveda/5/20/0/7
  • अन्तरैश्चक्रैस्तनयाय वर्तिर्द्युमता यातं नृवता रथेन। सनुत्येन त्यजसा मर्त्यस्य वनुष्यतामपि शीर्षा ववृक्तम् ॥१०॥ - Rigveda/6/62/10
  • अन्तर्गर्भश्चरति देवतास्वाभूतो भूतः स उ जायते पुनः। स भूतो भव्यं भविष्यत्पिता पुत्रं प्र विवेशा शचीभिः ॥ - Atharvaveda/11/4/0/20
  • अन्तर्दधे द्यावापृथिवी उताहरुत सूर्यम्। ते मे देवाः पुरोहिताः प्रतीचीः कृत्याः प्रतिसरैरजन्तु ॥ - Atharvaveda/8/5/0/6
  • अन्तर्दावे जुहुता स्वेतद्यातुधानक्षयणं घृतेन। आराद्रक्षांसि प्रति दह त्वमग्ने न नो गृहाणामुप तीतपासि ॥ - Atharvaveda/6/32/0/1
  • अन्तर्दूतो रोदसी दस्म ईयते होता निषत्तो मनुषः पुरोहितः। क्षयं बृहन्तं परि भूषति द्युभिर्देवेभिरग्निरिषितो धियावसुः॥ - Rigveda/3/3/2
  • अन्तर्देशा अबध्नत प्रदिशस्तमबध्नत। प्रजापतिसृष्टो मणिर्द्विषतो मेऽधराँ अकः ॥ - Atharvaveda/10/6/0/19
  • अन्तर्धिर्देवानां परिधिर्मनुष्याणामग्निर्गार्ह्पत्य उभयानन्तरा श्रितः ॥ - Atharvaveda/12/2/0/44
  • अन्तर्धेहि जातवेद आदित्य कुणपं बहु। त्रिषन्धेरियं सेना सुहितास्तु मे वशे ॥ - Atharvaveda/11/10/0/4
  • अन्तर्यच्छ जिघांसतो वज्रमिन्द्राभिदासतः । दासस्य वा मघवन्नार्यस्य वा सनुतर्यवया वधम् ॥ - Rigveda/10/102/3
  • अन्तर्ह्यग्न ईयसे विद्वान् जन्मोभया कवे। दूतो जन्येव मित्र्यः॥ - Rigveda/2/6/7
  • अन्तश्च प्रागा अदितिर्भवास्यवयाता हरसो दैव्यस्य । इन्दविन्द्रस्य सख्यं जुषाणः श्रौष्टीव धुरमनु राय ऋध्याः ॥ - Rigveda/8/48/2
  • अन्तश्चरति रोचना अस्य प्राणादपानतः। व्यख्यन्महिषः स्व: ॥ - Atharvaveda/20/48/0/5
  • अन्तश्चरति रोचना अस्य प्राणादपानतः। व्यख्यन्महिषः स्वः ॥ - Atharvaveda/6/31/0/2
  • अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन्महिषो दिवम् ॥ - Rigveda/10/189/2
  • अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन्महिषो दिवम् ॥१३७७ - Samveda/1377
  • अन्तश्चरति रोचनास्य प्राणादपानती । व्यख्यन्महिषो दिवम् ॥६३१॥ - Samveda/631
  • अन्तश्चरति रोचनास्य प्राणादपानती व्यख्यन्महिषो दिवम् ॥ - Yajurveda/3/7
  • अन्तस्ते द्यावापृथिवी दधाम्यन्तर्दधाम्युर्वन्तरिक्षम् । सजूर्देवेभिरवरैः परैश्चान्तर्यामे मघवन्मादयस्व ॥ - Yajurveda/7/5
  • अन्ति चित्सन्तमह यज्ञं मर्तस्य रिपोः । नोप वेषि जातवेदः ॥ - Rigveda/8/11/4
  • अन्ति सन्तं न जहात्यन्ति सन्तं न पश्यति। देवस्य पश्य काव्यं न ममार न जीर्यति ॥ - Atharvaveda/10/8/0/32
  • अन्तिवामा दूरे अमित्रमुच्छोर्वीं गव्यूतिमभयं कृधी नः । यावय द्वेष आ भरा वसूनि चोदय राधो गृणते मघोनि ॥ - Rigveda/7/77/4
  • अन्त्रेभ्यस्ते गुदाभ्यो वनिष्ठोरुदरादधि। यक्ष्मं कुक्षिभ्यां प्लाशेर्नाभ्या वि वृहामि ते ॥ - Atharvaveda/20/96/0/20
  • अन्ध स्थान्धो वो भक्षीय मह स्थ महो वो भक्षीयोर्ज स्थोर्जँवो भक्षीय रायस्पोष स्थ रायस्पोषँवो भक्षीय ॥ - Yajurveda/3/20
  • अन्धन्तमः प्र विशन्ति येसम्भूतिमुपासते । ततो भूयऽइव ते तमो यऽउ सम्भूत्याँ रताः ॥ - Yajurveda/40/9
  • अन्धन्तमः प्रविशन्ति येविद्यामुपासते । ततो भूयऽइव ते तमो यऽउ विद्यायाँ रताः ॥ - Yajurveda/40/12
  • अन्धा अमित्रा भवताशीर्षाणोऽहय इव । तेषां वो अग्निनुन्नानामिन्द्रो हन्तु वरंवरम् ॥१८७१ - Samveda/1871
Top