1924 परिणाम मिले!
- सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः । मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥१४१९॥ - Samveda/1419
- स मानुषीषु दूळभो विक्षु प्रावीरमर्त्यः। दूतो विश्वेषां भुवत् ॥२॥ - Rigveda/4/9/2
- स मानुषे वृजने शंतमो हितो३ऽग्निर्यज्ञेषु जेन्यो न विश्पति: प्रियो यज्ञेषु विश्पति:। स हव्या मानुषाणामिळा कृतानि पत्यते। स नस्त्रासते वरुणस्य धूर्तेर्महो देवस्य धूर्तेः ॥ - Rigveda/1/128/7
- स मामृजे तिरो अण्वानि मेष्यो मीढ्वान्त्सप्तिर्न वाजयुः । अनुमाद्यः पवमानो मनीषिभिः सोमो विप्रेभिरृक्वभिः ॥१६९०॥ - Samveda/1690
- स मामृजे तिरो अण्वानि मेष्यो मीळ्हे सप्तिर्न वाजयुः । अनुमाद्य: पवमानो मनीषिभि: सोमो विप्रेभिॠक्वभिः ॥ - Rigveda/9/107/11
- स माहिन इन्द्रो अर्णो अपां प्रैरयदहिहाच्छा समुद्रम्। अजनयत्सूर्यं विदद्गा अक्तुनाह्नां वयुनानि साधत्॥ - Rigveda/2/19/3
- स मृज्यते सुकर्मभिर्देवो देवेभ्य: सुतः । विदे यदासु संददिर्महीरपो वि गाहते ॥ - Rigveda/9/99/7
- स मृज्यमानो दशभि: सुकर्मभि: प्र मध्यमासु मातृषु प्रमे सचा । व्रतानि पानो अमृतस्य चारुण उभे नृचक्षा अनु पश्यते विशौ ॥ - Rigveda/9/70/4
- स मे वपुश्छदयदश्विनोर्यो रथो विरुक्मान्मनसा युजानः। येन नरा नासत्येषयध्यै वर्तिर्याथस्तनयाय त्मने च ॥५॥ - Rigveda/6/49/5
- स य एवं विदुष उपद्रष्टा भवति प्राणं रुणद्धि ॥ - Atharvaveda/11/3/0/54
- स य एवं विद्वानुदकमुपसिच्योपहरति। - Atharvaveda/9/6/4/9
- स य एवं विद्वान्क्षीरमुपसिच्योपहरति। - Atharvaveda/9/6/4/1
- स य एवं विद्वान्त्सर्पिरुपसिच्योपहरति। - Atharvaveda/9/6/4/3
- स य एवं विद्वान्न द्विषन्नश्नीयान्न द्विषतोऽन्नमश्नीयान्न मीमांसितस्य न मीमांसमानस्य ॥ - Atharvaveda/9/6/2/7
- स य एवं विद्वान्मधूपसिच्योपहरति। - Atharvaveda/9/6/4/5
- स य एवं विद्वान्मांसमुपसिच्योपहरति। - Atharvaveda/9/6/4/7
- स य एवंविदुषा व्रात्येनातिसृष्टो जुहोति ॥ - Atharvaveda/15/12/0/4
- स य ओदनस्य महिमानं विद्यात् ॥ - Atharvaveda/11/3/0/23
- सं यं स्तुभोऽवनयो न यन्ति समुद्रं न स्रवतो रोधचक्राः। स विद्वाँ उभयं चष्टे अन्तर्बृहस्पतिस्तर आपश्च गृध्र: ॥ - Rigveda/1/190/7
- स यक्षदस्य महिमानमग्नेः सऽईम्मन्द्रा सुप्रयसः । वसुश्वेतिष्ठो वसुधातमश्च ॥ - Yajurveda/27/15
- सं यज्जनान्क्रतुभि: शूर ईक्षयद्धने हिते तरुषन्त श्रवस्यव: प्र यक्षन्त श्रवस्यव:। तस्मा आयु: प्रजावदिद्बाधे अर्चन्त्योजसा। इन्द्र ओक्यं दिधिषन्त धीतयो देवाँ अच्छा न धीतय: ॥ - Rigveda/1/132/5
- सं यज्जनौ सुधनौ विश्वशर्धसाववेदिन्द्रो मघवा गोषु शुभ्रिषु। युजं ह्य१न्यमकृत प्रवेपन्युदीं गव्यं सृजते सत्वभिर्धुनिः ॥८॥ - Rigveda/5/34/8
- स यज्ञः प्रथमो भूतो भव्यो अजायत। तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥ - Atharvaveda/13/1/0/55
- स यज्ञस्तस्य यज्ञः स यज्ञस्य शिरस्कृतम् ॥ - Atharvaveda/13/4/0/40
- सं यत्त इन्द्र मन्यवः सं चक्राणि दधन्विरे। अध त्वे अध सूर्ये ॥६॥ - Rigveda/4/31/6
- स यत्पशूननुव्यचलद्रुद्रो भूत्वानुव्यचलदोषधीरन्नादीः कृत्वा ॥ - Atharvaveda/15/14/0/11
- स यत्पितॄननुव्यचलद्यमो राजा भूत्वानुव्यचलत्स्वधाकारमन्नादं कृत्वा ॥ - Atharvaveda/15/14/0/13
- स यत्प्रजा अनुव्यचलत्प्रजापतिर्भूत्वानुव्यचलत्प्राणमन्नादं कृत्वा ॥ - Atharvaveda/15/14/0/21
- स यत्प्रतीचींदिशमनु व्यचलद्वरुणो राजा भूत्वानुव्यचलदपोऽन्नादीः कृत्वा ॥ - Atharvaveda/15/14/0/5
- स यत्प्राचींदिशमनु व्यचलन्मारुतं शर्धो भूत्वानुव्यचलन्मनोऽन्नादं कृत्वा॥ - Atharvaveda/15/14/0/1
- सं यदिषो वनामहे सं हव्या मानुषाणाम्। उत द्युम्नस्य शवस ऋतस्य रश्मिमा ददे ॥३॥ - Rigveda/5/7/3
- स यदुदीचींदिशमनु व्यचलत् सोमो राजा भूत्वानुव्यचलत्सप्तर्षिभिर्हुतआहुतिमन्नादीं कृत्वा ॥ - Atharvaveda/15/14/0/7
- स यदूर्ध्वांदिशमनु व्यचलद्बृहस्पतिर्भूत्वानुव्यचलद्वषट्कारमन्नादं कृत्वा॥ - Atharvaveda/15/14/0/17
- स यद्दक्षिणांदिशमनु व्यचलद्भूत्वानुव्यचलद्बलमन्नादं कृत्वा ॥ - Atharvaveda/15/14/0/3
- स यद्देवाननुव्यचलदीशानो भूत्वानुव्यचलन्मन्युमन्नादं कृत्वा ॥ - Atharvaveda/15/14/0/19
- सं यद्धनन्त मन्युभिर्जनासः शूरा यह्वीष्वोषधीषु विक्षु। अध स्मा नो मरुतो रुद्रियासस्त्रातारो भूत पृतनास्वर्यः ॥२२॥ - Rigveda/7/56/22
- स यद्ध्रुवांदिशमनु व्यचलद्विष्णुर्भूत्वानुव्यचलद्विराजमन्नादीं कृत्वा ॥ - Atharvaveda/15/14/0/9
- सं यद्वयं यवसादो जनानामहं यवाद उर्वज्रे अन्तः । अत्रा युक्तोऽवसातारमिच्छादथो अयुक्तं युनजद्ववन्वान् ॥ - Rigveda/10/27/9
- स यन्ता विप्र एषां स यज्ञानामथा हि षः। अग्निं तं वो दुवस्यत दाता यो वनिता मघम्॥ - Rigveda/3/13/3
- सं यन्मदाय शुष्मिण एना ह्यस्योदरे। समुद्रो न व्यचो दधे॥ - Rigveda/1/30/3
- सं यन्मही मिथती स्पर्धमाने तनूरुचा शूरसाता यतैते । अदेवयुं विदथे देवयुभि: सत्रा हतं सोमसुता जनेन ॥ - Rigveda/7/93/5
- सं यन्मिथः पस्पृधानासो अग्मत शुभे मखा अमिता जायवो रणे। युवोरह प्रवणे चेकिते रथो यदश्विना वहथः सूरिमा वरम् ॥ - Rigveda/1/119/3
- सं यस्मिन्विश्वा वसूनि जग्मुर्वाजे नाश्वा: सप्तीवन्त एवै: । अस्मे ऊतीरिन्द्रवाततमा अर्वाचीना अग्न आ कृणुष्व ॥ - Rigveda/10/6/6
- स यह्व्यो३ऽवनीर्गोष्वर्वा जुहोति प्रधन्यासु सस्रि: । अपादो यत्र युज्यासोऽरथा द्रोण्यश्वास ईरते घृतं वाः ॥ - Rigveda/10/99/4
- सं या दानूनि येमथुर्दिव्याः पार्थिवीरिष: । नभस्वतीरा वां चरन्तु वृष्टय: ॥ - Rigveda/8/25/6
- स युध्मः सत्वा खजकृत्समद्वा तुविम्रक्षो नदनुमाँ ऋजीषी। बृहद्रेणुश्च्यवनो मानुषीणामेकः कृष्टीनामभवत्सहावा ॥२॥ - Rigveda/6/18/2
- स यो न मुहे न मिथू जनो भूत्सुमन्तुनामा चुमुरिं धुनिं च। वृणक्पिप्रुं शम्बरं शुष्णमिन्द्रः पुरां च्यौत्नाय शयथाय नू चित् ॥८॥ - Rigveda/6/18/8
- स यो वृषा नरां न रोदस्यो: श्रवोभिरस्ति जीवपीतसर्गः। प्र यः सस्राणः शिश्रीत योनौ ॥ - Rigveda/1/149/2
- स यो वृषा वृष्ण्येभि: समोका महो दिवः पृथिव्याश्च सम्राट्। सतीनसत्वा हव्यो भरेषु मरुत्वान्नो भवत्विन्द्र ऊती ॥ - Rigveda/1/100/1
- स यो व्यस्थादभि दक्षदुर्वीं पशुर्नैति स्वयुरगोपाः। अग्निः शोचिष्माँ अतसान्युष्णन्कृष्णव्यथिरस्वदयन्न भूम॥ - Rigveda/2/4/7