1924 परिणाम मिले!
- स प्रत्नवन्नवीयसाग्ने द्युम्नेन संयता। बृहत्ततन्थ भानुना ॥२१॥ - Rigveda/6/16/21
- स प्रत्नवन्नव्यसे विश्ववार सूक्ताय पथः कृणुहि प्राच: । ये दु:षहासो वनुषा बृहन्तस्ताँस्ते अश्याम पुरुकृत्पुरुक्षो ॥ - Rigveda/9/91/5
- स प्रथमे व्योमनि देवानां सदने वृधः । सुपारः सुश्रवस्तम: समप्सुजित् ॥ - Rigveda/8/13/2
- स प्रथमे व्योमनि देवानाꣳ सदने वृधः । सुपारः सुश्रवस्तमः समप्सुजित् ॥७४७॥ - Samveda/747
- स प्रथमो बृहस्पतिश्चिकित्वाँस्तस्माऽइन्द्राय सुतमा जुहोत स्वाहा । तृम्पन्तु होत्रा मध्वो याः स्विष्टा याः सुप्रीताः सुहुता यत्स्वाहायाडग्नीत् ॥ - Yajurveda/7/15
- स प्रवोळ्हॄन्परिगत्या दभीतेर्विश्वमधागायुधमिद्धे अग्नौ। सं गोभिरश्वैरसृजद्रथेभिः सोमस्य ता मद इन्द्रश्चकार॥ - Rigveda/2/15/4
- स प्राचीनान्पर्वतान्दृंहदोजसाधराचीनमकृणोदपामपः। अधारयत्पृथिवीं विश्वधायसमस्तभ्नान्मायया द्यामवस्रसः॥ - Rigveda/2/17/5
- सं प्रेरते अनु वातस्य विष्ठा ऐनं गच्छन्ति समनं न योषा: । ताभि: सयुक्सरथं देव ईयतेऽस्य विश्वस्य भुवनस्य राजा ॥ - Rigveda/10/168/2
- सं बर्हिरक्तं हविषा घृतेन समिन्द्रेण वसुना सं मरुद्भिः। सं देवैर्विश्वदेवेभिरक्तमिन्द्रं गछतु हविः स्वाहा ॥ - Atharvaveda/7/98/0/1
- स बुध्न्यादाष्ट्र जनुषोऽभ्यग्रं बृहस्पतिर्देवता तस्य सम्राट्। अहर्यच्छुक्रं ज्योतिषो जनिष्टाथ द्युमन्तो वि वसन्तु विप्राः ॥ - Atharvaveda/4/1/0/5
- स बृहतींदिशमनु व्यचलत् ॥ - Atharvaveda/15/6/0/10
- स बोधि सूरिर्मघवा वसुपते वसुदावन् । युयोध्यस्मद्द्वेषाँसि । विश्वकर्मणे स्वाहा ॥ - Yajurveda/12/43
- स बोधि सूरिर्मघवा वसुपते वसुदावन्। युयोध्य१स्मद्द्वेषांसि॥ - Rigveda/2/6/4
- स भक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । तेजिष्ठा अपो मꣳहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥१४२४॥ - Samveda/1424
- स भन्दना उदियर्ति प्रजावतीर्विश्वायुर्विश्वा: सुभरा अहर्दिवि । ब्रह्म प्रजावद्रयिमश्वपस्त्यं पीत इन्दविन्द्रमस्मभ्यं याचतात् ॥ - Rigveda/9/86/41
- सं भानुना यतते सूर्यस्याजुह्वानो घृतपृष्ठः स्वञ्चाः। तस्मा अमृध्रा उषसो व्युच्छान्य इन्द्राय सुनवामेत्याह ॥१॥ - Rigveda/5/37/1
- स भिक्षमाणो अमृतस्य चारुण उभे द्यावा काव्येना वि शश्रथे । तेजिष्ठा अपो मंहना परि व्यत यदी देवस्य श्रवसा सदो विदुः ॥ - Rigveda/9/70/2
- स भूतु यो ह प्रथमाय धायस ओजो मिमानो महिमानमातिरत्। शूरो यो युत्सु तन्वं परिव्यत शीर्षणि द्यां महिना प्रत्यमुञ्चत॥ - Rigveda/2/17/2
- सं भूम्या अन्ता ध्वसिरा अदृक्षतेन्द्रावरुणा दिवि घोष आरुहत् । अस्थुर्जनानामुप मामरातयोऽर्वागवसा हवनश्रुता गतम् ॥ - Rigveda/7/83/3
- स भ्रातरं वरुणमग्न आ ववृत्स्व देवाँ अच्छा सुमतीयज्ञवनसं ज्येष्ठं यज्ञवनसम्। ऋतावानमादित्यं चर्षणीधृतं राजानं चर्षणीधृतम् ॥२॥ - Rigveda/4/1/2
- स मज्मना जनिम मानुषाणाममर्त्येन नाम्नाति प्र सर्स्रे। स द्युम्नेन स शवसोत राया स वीर्येण नृतमः समोकाः ॥७॥ - Rigveda/6/18/7
- स मत्सरः पृत्सु वन्वन्नवातः सहस्ररेता अभि वाजमर्ष । इन्द्रायेन्दो पवमानो मनीष्यं१शोरूर्मिमीरय गा इषण्यन् ॥ - Rigveda/9/96/8
- स मन्दस्वा ह्यनु जोषमुग्र प्र त्वा यज्ञास इमे अश्नुवन्तु। प्रेमे हवासः पुरुहूतमस्मे आ त्वेयं धीरवस इन्द्र यम्याः ॥८॥ - Rigveda/6/23/8
- स मन्दस्वा ह्यन्धसो राधसे तन्वा महे। न स्तोतारं निदे करः ॥२७॥ - Rigveda/6/45/27
- स मन्दस्वा ह्यन्धसो राधसे तन्वा महे। न स्तोतारं निदे करः॥ - Rigveda/3/41/6
- स मन्दस्वा ह्यन्धसो राधसे तन्वा महे। न स्तोतारं निदे करः ॥ - Atharvaveda/20/23/0/6
- स मन्द्रया च जिह्वया वह्निरासा विदुष्टरः। अग्ने रयिं मघवद्भ्यो न आ वह हव्यदातिं च सूदय ॥९॥ - Rigveda/7/16/9
- स मन्युं मर्त्यानामदब्धो नि चिकीषते । पुरा निदश्चिकीषते ॥ - Rigveda/8/78/6
- स मन्युमीः समदनस्य कर्तास्माकेभिर्नृभि: सूर्यं सनत्। अस्मिन्नहन्त्सत्पतिः पुरुहूतो मरुत्वान्नो भवत्विन्द्र ऊती ॥ - Rigveda/1/100/6
- स मर्तो अग्ने स्वनीक रेवानमर्त्ये य आजुहोति हव्यम्। स देवता वसुवनिं दधाति यं सूरिरर्थी पृच्छमान एति ॥२३॥ - Rigveda/7/1/23
- स मर्मृजान आयुभि: प्रयस्वान्प्रयसे हितः । इन्दुरत्यो विचक्षणः ॥ - Rigveda/9/66/23
- स मर्मृजान आयुभिरिभो राजेव सुव्रतः । श्येनो न वंसु षीदति ॥ - Rigveda/9/57/3
- स मर्मृजान आयुभिरिभो राजेव सुव्रतः । श्येनो न वꣳसु षीदति ॥१७६३॥ - Samveda/1763
- स मर्मृजान इन्द्रियाय धायस ओभे अन्ता रोदसी हर्षते हितः । वृषा शुष्मेण बाधते वि दुर्मतीरादेदिशानः शर्यहेव शुरुध: ॥ - Rigveda/9/70/5
- स महिमासद्रुर्भूत्वान्तं पृथिव्या अगच्छत्स समुद्रोऽभवत् ॥ - Atharvaveda/15/7/0/1
- स मह्ना विश्वा दुरितानि साह्वानग्नि ष्टवे दम आ जातवेदाः । स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥१३०५॥ - Samveda/1305
- स मह्ना विश्वा दुरितानि साह्वानग्निः ष्टवे दम आ जातवेदाः। स नो रक्षिषद्दुरितादवद्यादस्मान्गृणत उत नो मघोनः ॥२॥ - Rigveda/7/12/2
- स मा जीवीत्तंप्राणो जहातु ॥ - Atharvaveda/16/7/0/13
- सं मा तपन्त्यभित: सपत्नीरिव पर्शवः । नि बाधते अमतिर्नग्नता जसुर्वेर्न वेवीयते मतिः ॥ - Rigveda/10/33/2
- सं मा तपन्त्यभित: सपत्नीरिव पर्शवः। मूषो न शिश्ना व्यदन्ति माध्य: स्तोतारं ते शतक्रतो वित्तं मे अस्य रोदसी ॥ - Rigveda/1/105/8
- सं मा सिञ्चन्तु मरुतः सं पूष सं बृहस्पतिः। सं मायमग्निः सिञ्चतु प्रजया च धनेन च दीर्घमायुः कृणोतु मे ॥ - Atharvaveda/7/33/0/1
- सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥ - Atharvaveda/7/89/0/2
- सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥ - Atharvaveda/9/1/0/15
- सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः ॥ - Atharvaveda/10/5/0/47
- सं माग्ने वर्चसा सृज सं प्रजया समायुषा। विद्युर्मे अस्य देवा इन्द्रो विद्यात्सह ऋषिभिः॥ - Rigveda/1/23/24
- स मातरा न ददृशान उस्रियो नानददेति मरुतामिव स्वनः । जानन्नृतं प्रथमं यत्स्वर्णरं प्रशस्तये कमवृणीत सुक्रतु: ॥ - Rigveda/9/70/6
- स मातरा विचरन्वाजयन्नपः प्र मेधिरः स्वधया पिन्वते पदम् । अंशुर्यवेन पिपिशे यतो नृभि: सं जामिभिर्नसते रक्षते शिर: ॥ - Rigveda/9/68/4
- स मातरा सूर्येणा कवीनामवासयद्रुजदद्रिं गृणानः। स्वाधीभिर्ऋक्वभिर्वावशान उदुस्रियाणामसृजन्निदानम् ॥२॥ - Rigveda/6/32/2
- स मातरिश्वा पुरुवारपुष्टिर्विदद्गातुं तनयाय स्वर्वित्। विशां गोपा जनिता रोदस्योर्देवा अग्निं धारयन्द्रविणोदाम् ॥ - Rigveda/1/96/4
- सं मातृभिर्न शिशुर्वावशानो वृषा दधन्वे पुरुवारो अद्भिः । मर्यो न योषामभि निष्कृतं यन्त्सं गच्छते कलश उस्रियाभिः ॥ - Rigveda/9/93/2