Loading...

1924 परिणाम मिले!

  • स नो वाजाय श्रवस इषे च राये धेहि द्युमत इन्द्र विप्रान्। भरद्वाजे नृवत इन्द्र सूरीन्दिवि च स्मैधि पार्ये न इन्द्र ॥१४॥ - Rigveda/6/17/14
  • स नो वाजेष्वविता पुरूवसु: पुरस्थाता मघवा वृत्रहा भुवत् ॥ - Rigveda/8/46/13
  • स नो विभावा चक्षणिर्न वस्तोरग्निर्वन्दारु वेद्यश्चनो धात्। विश्वायुर्यो अमृतो मर्त्येषूषर्भुद्भूदतिथिर्जातवेदाः ॥२॥ - Rigveda/6/4/2
  • स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दवा भर ॥ - Rigveda/9/57/4
  • स नो विश्वा दिवो वसूतो पृथिव्या अधि । पुनान इन्दवा भर ॥१७६४॥ - Samveda/1764
  • स नो विश्वान्या भर सुवितानि शतक्रतो । यदिन्द्र मृळयासि नः ॥ - Rigveda/8/93/29
  • स नो विश्वाहा सुक्रतुरादित्यः सुपथा करत्। प्र ण आयूंषि तारिषत्॥ - Rigveda/1/25/12
  • स नो विश्वेभिर्देवेभिरूर्जो नपाद्भद्रशोचे । रयिं देहि विश्ववारम् ॥ - Rigveda/8/71/3
  • स नो वृषन्त्सनिष्ठया सं घोरया द्रवित्न्वा । धियाविड्ढि पुरंध्या ॥ - Rigveda/8/92/15
  • स नो वृषन्नमुं चरुं सत्रादावन्नपा वृधि। अस्मभ्यमप्रतिष्कुतः ॥ - Atharvaveda/20/70/0/12
  • स नो वृषन्नमुं चरुं सत्रादावन्नपावृधि। अस्मभ्यमप्रतिष्कुतः॥ - Rigveda/1/7/6
  • स नो वृषन्नमुं चरुꣳ सत्रादावन्नपा वृधि । अस्मभ्यमप्रतिष्कुतः ॥१६२१॥ - Samveda/1621
  • स नो वृष्टिं दिवस्परि स नो वाजमनर्वाणम्। स नः सहस्रिणीरिषः॥ - Rigveda/2/6/5
  • स नो वेदो अमात्यमग्नी रक्षतु विश्वतः। उतास्मान् पात्वंहसः ॥३॥ - Rigveda/7/15/3
  • स नो वेदो अमात्यमग्नी रक्षतु शन्तमः । उतास्मान्पात्वꣳहसः ॥१३८१॥ - Samveda/1381
  • स नो हरीणां पत इन्दो देवप्सरस्तमः । सखेव सख्ये नर्यो रुचे भव ॥ - Rigveda/9/105/5
  • स नो हरीणां पत इन्दो देवप्सरस्तमः । सखेव सख्ये नर्यो रुचे भव ॥१६१२॥ - Samveda/1612
  • स पचामि स ददामि। स यजे स दत्तान्मा यूषम् ॥ - Atharvaveda/6/123/0/4
  • स पत्यत उभयोर्नृम्णमयोर्यदी वेधसः समिथे हवन्ते। वृत्रे वा महो नृवति क्षये वा व्यचस्वन्ता यदि वितन्तसैते ॥६॥ - Rigveda/6/25/6
  • स पप्रथानो अभि पञ्च भूमा त्रिवन्धुरो मनसा यातु युक्तः । विशो येन गच्छथो देवयन्ती: कुत्रा चिद्याममश्विना दधाना ॥ - Rigveda/7/69/2
  • स परमांदिशमनु व्यचलत् ॥ - Atharvaveda/15/6/0/13
  • सं परमान्त्समवमानथो सं द्यामि मध्यमान्। इन्द्रस्तान्पर्यहार्दाम्ना तानग्ने सं द्या त्वम् ॥ - Atharvaveda/6/103/0/2
  • स पर्यगाच्छुक्रमकायमव्रणमस्नाविरँ शुद्धमपापविद्धम् । कविर्मनीषी परिभूः स्वयम्भूर्याथातथ्यतोर्थान्व्यदधाच्छाश्वतीभ्यः समाभ्यः ॥ - Yajurveda/40/8
  • स पर्वतो न धरुणेष्वच्युतः सहस्रमूतिस्तविषीषु वावृधे। इन्द्रो यद्वृत्रमवधीन्नदीवृतमुब्जन्नर्णांसि जर्हृषाणो अन्धसा ॥ - Rigveda/1/52/2
  • स पवस्व धनंजय प्रयन्ता राधसो महः । अस्मभ्यं सोम गातुवित् ॥ - Rigveda/9/46/5
  • स पवस्व मदाय कं नृचक्षा देववीतये । इन्दविन्द्राय पीतये ॥ - Rigveda/9/45/1
  • स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभिः । एन्द्रस्य जठरं विश ॥१२०९॥ - Samveda/1209
  • स पवस्व मदिन्तम गोभिरञ्जानो अक्तुभि: । इन्दविन्द्राय पीतये ॥ - Rigveda/9/50/5
  • स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । वव्रिवांसं महीरपः ॥ - Rigveda/9/61/22
  • स पवस्व य आविथेन्द्रं वृत्राय हन्तवे । वव्रिवाꣳसं महीरपः ॥४९४॥ - Samveda/494
  • स पवस्व विचर्षण आ मही रोदसी पृण । उषाः सूर्यो न रश्मिभि: ॥ - Rigveda/9/41/5
  • स पवस्व सहमानः पृतन्यून्त्सेधन्रक्षांस्यप दुर्गहाणि । स्वायुधः सासह्वान्त्सोम शत्रून् ॥ - Rigveda/9/110/12
  • स पवित्रे विचक्षणो हरिरर्षति धर्णसिः । अभि योनिं कनिक्रदत् ॥ - Rigveda/9/37/2
  • स पवित्रे विचक्षणो हरिरर्षति धर्णसिः । अभि योनिं कनिक्रदत् ॥१२९३॥ - Samveda/1293
  • स पित्र्याण्यायुधानि विद्वानिन्द्रेषित आप्त्यो अभ्ययुध्यत् । त्रिशीर्षाणं सप्तरश्मिं जघन्वान्त्वाष्ट्रस्य चिन्निः ससृजे त्रितो गाः ॥ - Rigveda/10/8/8
  • स पुनान उप सूरे दधान ओभे अप्रा रोदसी वी ष आवः । प्रिया चिद्यस्य प्रियसास ऊती सतो धनं कारिणे न प्र यꣳसत् ॥१३५८॥ - Samveda/1358
  • स पुनान उप सूरे न धातोभे अप्रा रोदसी वि ष आवः । प्रिया चिद्यस्य प्रियसास ऊती स तू धनं कारिणे न प्र यंसत् ॥ - Rigveda/9/97/38
  • स पुनानो मदिन्तम: सोमश्चमूषु सीदति । पशौ न रेत आदधत्पतिर्वचस्यते धियः ॥ - Rigveda/9/99/6
  • स पूर्वया निविदा कव्यतायोरिमाः प्रजा अजनयन्मनूनाम्। विवस्वता चक्षसा द्यामपश्च देवा अग्निं धारयन्द्रविणोदाम् ॥ - Rigveda/1/96/2
  • स पूर्व्यः पवते यं दिवस्परि श्येनो मथायदिषितस्तिरो रज: । स मध्व आ युवते वेविजान इत्कृशानोरस्तुर्मनसाह बिभ्युषा ॥ - Rigveda/9/77/2
  • स पूर्व्यो महानां वेनः क्रतुभिरानजे । यस्य द्वारा मनुष्पिता देवेषु धिय आनजे ॥ - Rigveda/8/63/1
  • स पूर्व्यो महोनां वेनः क्रतुभिरानजे । यस्य द्वारा मनुः पिता देवेषु धिय आनजे ॥३५५॥ - Samveda/355
  • स पूर्व्यो वसुविज्जायमानो मृजानो अप्सु दुदुहानो अद्रौ । अभिशस्तिपा भुवनस्य राजा विदद्गातुं ब्रह्मणे पूयमानः ॥ - Rigveda/9/96/10
  • सं पूषन्नध्वनस्तिर व्यंहो विमुचो नपात् । सक्ष्वा देव प्र णस्पुरः ॥ - Rigveda/1/42/1
  • सं पूषन्विदुषा नय यो अञ्जसानुशासति। य एवेदमिति ब्रवत् ॥१॥ - Rigveda/6/54/1
  • स प्रकेत उभयस्य प्रविद्वान्त्सहस्रदान उत वा सदानः। यमेन ततं परिधिं वयिष्यन्नप्सरसः परि जज्ञे वसिष्ठः ॥१२॥ - Rigveda/7/33/12
  • स प्रजापतिःसुवर्णमात्मन्नपश्यत्तत्प्राजनयत् ॥ - Atharvaveda/15/1/0/2
  • स प्रजाभ्यो वि पश्यति यच्च प्राणति यच्च न ॥ - Atharvaveda/13/4/0/11
  • स प्रत्नथा कविवृध इन्द्रो वाकस्य वक्षणि: । शिवो अर्कस्य होमन्यस्मत्रा गन्त्ववसे ॥ - Rigveda/8/63/4
  • स प्रत्नथा सहसा जायमानः सद्यः काव्यानि बळधत्त विश्वा। आपश्च मित्रं धिषणा च साधन्देवा अग्निं धारयन्द्रविणोदाम् ॥ - Rigveda/1/96/1
Top