1924 परिणाम मिले!
- स योजत उरुगायस्य जूतिं वृथा क्रीडन्तं मिमते न गावः । परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥१११८॥ - Samveda/1118
- स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः । सुब्रह्मा यज्ञः सुशमी वसूनां देवꣳ राधो जनानाम् ॥७५०॥ - Samveda/750
- स योजते अरुषा विश्वभोजसा स दुद्रवत्स्वाहुतः। सुब्रह्मा यज्ञः सुशमी वसूनां देवं राधो जनानाम् ॥२॥ - Rigveda/7/16/2
- स रत्नं मर्त्यो वसु विश्वं तोकमुत त्मना । अच्छा गच्छत्यस्तृतः ॥ - Rigveda/1/41/6
- स रथेन रथीतमोऽस्माकेनाभियुग्वना। जेषि जिष्णो हितं धनम् ॥१५॥ - Rigveda/6/45/15
- स रन्धयत्सदिवः सारथये शुष्णमशुषं कुयवं कुत्साय। दिवोदासाय नवतिं च नवेन्द्रः पुरो व्यैरच्छम्बरस्य॥ - Rigveda/2/19/6
- स रंहत उरुगायस्य जूतिं वृथा क्रीळन्तं मिमते न गाव: । परीणसं कृणुते तिग्मशृङ्गो दिवा हरिर्ददृशे नक्तमृज्रः ॥ - Rigveda/9/97/9
- स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे । इन्द्र जैत्रा श्रवस्या च यन्तवे ॥ - Rigveda/8/15/3
- स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे। इन्द्र जैत्रा श्रवस्या च यन्तवे ॥ - Atharvaveda/20/61/0/6
- स राजसि पुरुष्टुतँ एको वृत्राणि जिघ्नसे। इन्द्र जैत्रा श्रवस्या च यन्तवे ॥ - Atharvaveda/20/62/0/10
- सं राजानो अगुः समृणान्यगुः सं कुष्ठा अगुः सं कला अगुः। समस्मासु यद्दुःष्वप्न्यं निर्द्विषते दुःष्वप्न्यं सुवाम ॥ - Atharvaveda/19/57/0/2
- स रायस्खामुप सृजा गृणानः पुरुश्चन्द्रस्य त्वमिन्द्र वस्वः। पतिर्बभूथासमो जनानामेको विश्वस्य भुवनस्य राजा ॥४॥ - Rigveda/6/36/4
- स रुद्रेभिरशस्तवार ऋभ्वा हित्वी गयमारेअवद्य आगात् । वम्रस्य मन्ये मिथुना विवव्री अन्नमभीत्यारोदयन्मुषायन् ॥ - Rigveda/10/99/5
- स रुद्रो वसुवनिर्वसुदेये नमोवाके वषट्कारोऽनु संहितः ॥ - Atharvaveda/13/4/0/26
- स रेतोधा वृषभः शश्वतीनां तस्मिन्नात्मा जगतस्तस्थुषश्च । तन्म ऋतं पातु शतशारदाय यूयं पात स्वस्तिभि: सदा नः ॥ - Rigveda/7/101/6
- स रेवाँ इव विश्पतिर्दैव्यः केतुः शृणोतु नः । उक्थैरग्निर्बृहद्भानुः ॥१६६५॥ - Samveda/1665
- स रेवाँइव विश्पतिर्दैव्यः केतुः शृणोतु नः। उक्थैरग्निर्बृहद्भानुः॥ - Rigveda/1/27/12
- स रोचयज्जनुषा रोदसी उभे स मात्रोरभवत्पुत्र ईड्यः। हव्यवाळग्निरजरश्चनोहितो दूळभो विशामतिथिर्विभावसुः॥ - Rigveda/3/2/2
- स रोरुवदभि पूर्वा अचिक्रददुपारुह: श्रथयन्त्स्वादते हरि: । तिरः पवित्रं परियन्नुरु ज्रयो नि शर्याणि दधते देव आ वरम् ॥ - Rigveda/9/68/2
- स रोरुवद्वृषभस्तिग्मशृङ्गो वर्ष्मन्तस्थौ वरिमन्ना पृथिव्याः । विश्वेष्वेनं वृजनेषु पामि यो मे कुक्षी सुतसोमः पृणाति ॥ - Rigveda/10/28/2
- सं वः पृच्यन्तां तन्वः सं मनांसि समु व्रता। सं वोऽयं ब्रह्मणस्पतिर्भगः सं वो अजीगमत् ॥ - Atharvaveda/6/74/0/1
- सं वः सृजत्वर्यमा सं पूषा सं बृहस्पतिः। समिन्द्रो यो धनंजयो मयि पुष्यत यद्वसु ॥ - Atharvaveda/3/14/0/2
- स वज्रभृद्दस्युहा भीम उग्रः सहस्रचेताः शतनीथ ऋभ्वा। चम्रीषो न शवसा पाञ्चजन्यो मरुत्वान्नो भवत्विन्द्र ऊती ॥ - Rigveda/1/100/12
- सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते । देवावीर्मदो मतिभिः परिष्कृतः ॥१०९९॥ - Samveda/1099
- सं वत्स इव मातृभिरिन्दुर्हिन्वानो अज्यते । देवावीर्मदो मतिभि: परिष्कृतः ॥ - Rigveda/9/105/2
- स वरुणः सायमग्निर्भवति स मित्रो भवति प्रातरुद्यन्। स सविता भूत्वान्तरिक्षेण याति स इन्द्रो भूत्वा तपति मध्यतो दिवम्। तस्य देवस्य क्रुद्धस्यैतदागो य एवं विद्वांसं ब्राह्मणं जिनाति। उद्वेपय रोहित प्र क्षिणीहि ब्रह्मज्यस्य प्रति मुञ्च पाशान् ॥ - Atharvaveda/13/3/0/13
- सं वर्चसा पयसा सं तनूभिरगन्महि मनसा सं शिवेन। त्वष्टा नो अत्र वरीयः कृणोत्वनु नो मार्ष्टु तन्वो यद्विरिष्टम् ॥ - Atharvaveda/6/53/0/3
- स वर्धिता वर्धनः पूयमानः सोमो मीढ्वाꣳ अभि नो ज्योतिषावीत् । यत्र नः पूर्वे पितरः पदज्ञाः स्वर्विदो अभि गा अद्रिमिष्णन् ॥१३५९॥ - Samveda/1359
- स वर्धिता वर्धनः पूयमान: सोमो मीढ्वाँ अभि नो ज्योतिषावीत् । येना न: पूर्वे पितर: पदज्ञाः स्वर्विदो अभि गा अद्रिमुष्णन् ॥ - Rigveda/9/97/39
- स वह्नि: पुत्रः पित्रोः पवित्रवान्पुनाति धीरो भुवनानि मायया। धेनुं च पृश्निं वृषभं सुरेतसं विश्वाहा शुक्रं पयो अस्य दुक्षत ॥ - Rigveda/1/160/3
- स वह्नि: सोम जागृवि: पवस्व देववीरति । अभि कोशं मधुश्चुतम् ॥ - Rigveda/9/36/2
- स वह्निभिर्ऋक्वभिर्गोषु शश्वन्मितज्ञुभिः पुरुकृत्वा जिगाय। पुरः पुरोहा सखिभिः सखीयन्दृळ्हा रुरोज कविभिः कविः सन् ॥३॥ - Rigveda/6/32/3
- स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः । सोमश्चमूषु सीदति ॥ - Rigveda/9/20/6
- स वह्निरप्सु दुष्टरो मृज्यमानो गभस्त्योः । सोमश्चमूषु सीदति ॥९७३॥ - Samveda/973
- स वा अग्नेरजायत तस्मादग्निरजायत ॥ - Atharvaveda/13/4/0/36
- स वा अद्भ्योजायत तस्मादापोऽजायन्त ॥ - Atharvaveda/13/4/0/37
- स वा अन्तरिक्षादजायत तस्मादन्तरिक्षमजायत ॥ - Atharvaveda/13/4/0/31
- स वा अह्नोऽजायत तस्मादहरजायत ॥ - Atharvaveda/13/4/0/29
- स वा ऋग्भ्योजायत तस्मादृचोऽजायन्त ॥ - Atharvaveda/13/4/0/38
- सं वां कर्मणा समिषा हिनोमीन्द्राविष्णू अपसस्पारे अस्य। जुषेथां यज्ञं द्रविणं च धत्तमरिष्टैर्नः पथिभिः पारयन्ता ॥१॥ - Rigveda/6/69/1
- स वां यज्ञेषु मानवी इन्दुर्जनिष्ट रोदसी । देवो देवी गिरिष्ठा अस्रेधन्तं तुविष्वणि ॥ - Rigveda/9/98/9
- सं वां शता नासत्या सहस्राश्वानां पुरुपन्था गिरे दात्। भरद्वाजाय वीर नू गिरे दाद्धता रक्षांसि पुरुदंससा स्युः ॥१०॥ - Rigveda/6/63/10
- स वाजं यातापदुष्पदा यन्त्स्वर्षाता परि षदत्सनिष्यन् । अनर्वा यच्छतदुरस्य वेदो घ्नञ्छिश्नदेवाँ अभि वर्पसा भूत् ॥ - Rigveda/10/99/3
- स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता । विप्रेभिरस्तु सनिता ॥१४१७॥ - Samveda/1417
- स वाजं विश्वचर्षणिरर्वद्भिरस्तु तरुता। विप्रेभिरस्तु सनिता॥ - Rigveda/1/27/9
- स वाजी रोचनं दिवः पवमानो वि धावति । रक्षोहा वारमव्ययम् ॥१२९४॥ - Samveda/1294
- स वाजी रोचना दिवः पवमानो वि धावति । रक्षोहा वारमव्ययम् ॥ - Rigveda/9/37/3
- स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभिः श्रीणानः ॥११६१॥ - Samveda/1161
- स वाज्यक्षाः सहस्ररेता अद्भिर्मृजानो गोभि: श्रीणानः ॥ - Rigveda/9/109/17
- स वाज्यर्वा स ऋषिर्वचस्यया स शूरो अस्ता पृतनासु दुष्टरः। स रायस्पोषं स सुवीर्यं दधे यं वाजो विभ्वाँ ऋभवो यमाविषुः ॥६॥ - Rigveda/4/36/6