1924 परिणाम मिले!
- स वायुमिन्द्रमश्विना साकं मदेन गच्छति । रणा यो अस्य धर्मणा ॥११३४॥ - Samveda/1134
- स वायुमिन्द्रमश्विना साकं मदेन गच्छति । रणा यो अस्य धर्मभिः ॥ - Rigveda/9/7/7
- स वावशान इह पाहि सोमं मरुद्भिरिन्द्र सखिभिः सुतं नः। जातं यत्त्वा परि देवा अभूषन्महे भराय पुरुहूत विश्वे॥ - Rigveda/3/51/8
- स वावृधे नर्यो योषणासु वृषा शिशुर्वृषभो यज्ञियासु । स वाजिनं मघवद्भ्यो दधाति वि सातये तन्वं मामृजीत ॥ - Rigveda/7/95/3
- स विद्वाँ अङ्गिरोभ्य इन्द्रो गा अवृणोदप । स्तुषे तदस्य पौंस्यम् ॥ - Rigveda/8/63/3
- स विद्वाँ अपगोहं कनीनामाविर्भवन्नुदतिष्ठत्परावृक्। प्रति श्रोणः स्थाद्व्य१नगचष्ट सोमस्य ता मद इन्द्रश्चकार॥ - Rigveda/2/15/7
- स विद्वाँ आ च पिप्रयो यक्षि चिकित्व आनुषक्। आ चास्मिन्त्सत्सि बर्हिषि॥ - Rigveda/2/6/8
- स विप्रश्चर्षणीनां शवसा मानुषाणाम्। अति क्षिप्रेव विध्यति ॥८॥ - Rigveda/4/8/8
- सं विशन्त्विहपितरः स्वा नः स्योनं कृण्वन्तः प्रतिरन्त आयुः। तेभ्यः शकेम हविषानक्षमाणा ज्योग्जीवन्तः शरदः पुरूचीः ॥ - Atharvaveda/18/2/0/29
- स विशःसबन्धूनन्नमन्नाद्यमभ्युदतिष्ठत् ॥ - Atharvaveda/15/8/0/2
- स विशोऽनुव्यचलत् ॥ - Atharvaveda/15/9/0/1
- स विश्वा दाशुषे वसु सोमो दिव्यानि पार्थिवा । पवतामान्तरिक्ष्या ॥ - Rigveda/9/36/5
- स विश्वा प्रति चाक्लृप ऋतूंरुत्सृजते वशी। यज्ञस्य वय उत्तिरन् ॥ - Atharvaveda/6/36/0/2
- स वीरो अप्रतिष्कुत इन्द्रेण शूशुवे नृभिः। यस्ते गभीरा सवनानि वृत्रहन्त्सुनोत्या च धावति ॥६॥ - Rigveda/7/32/6
- स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । हरिः पवित्रे अव्यत वेधा न योनिमासदम् ॥१३८८॥ - Samveda/1388
- स वीरो दक्षसाधनो वि यस्तस्तम्भ रोदसी । हरि: पवित्रे अव्यत वेधा न योनिमासदम् ॥ - Rigveda/9/101/15
- स वृत्रहत्ये हव्यः स ईड्यः स सुष्टुत इन्द्रः सत्यराधाः। स यामन्ना मघवा मर्त्याय ब्रह्मण्यते सुष्वये वरिवो धात् ॥२॥ - Rigveda/4/24/2
- स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । सोमो वाजमिवासरत् ॥ - Rigveda/9/37/5
- स वृत्रहा वृषा सुतो वरिवोविददाभ्यः । सोमो वाजमिवासरत् ॥१२९६॥ - Samveda/1296
- स वृत्रहेन्द्र ऋभुक्षाः सद्यो जज्ञानो हव्यो बभूव । कृण्वन्नपांसि नर्या पुरूणि सोमो न पीतो हव्य: सखिभ्यः ॥ - Rigveda/8/96/21
- स वृत्रहेन्द्रः कृष्णयोनीः पुरंदरो दासीरैरयद्वि। अजनयन्मनवे क्षामपश्च सत्रा शंसं यजमानस्य तूतोत्॥ - Rigveda/2/20/7
- स वृत्रहेन्द्रश्चर्षणीधृत्तं सुष्टुत्या हव्यं हुवेम । स प्राविता मघवा नोऽधिवक्ता स वाजस्य श्रवस्यस्य दाता ॥ - Rigveda/8/96/20
- स वेतसुं दशमायं दशोणिं तूतुजिमिन्द्रः स्वभिष्टिसुम्नः। आ तुग्रं शश्वदिभं द्योतनाय मातुर्न सीमुप सृजा इयध्यै ॥८॥ - Rigveda/6/20/8
- स वेद देव आनमं देवाँ ऋतायते दमे। दाति प्रियाणि चिद्वसु ॥३॥ - Rigveda/4/8/3
- स वेद पुत्रः पितरं स मातरं स सूनुर्भुवत्स भुवत्पुनर्मघः। स द्यामौर्णोदन्तरिक्षं स्वः स इदं विश्वमभवत्स आभवत् ॥ - Atharvaveda/7/1/0/2
- स वेद सुष्टुतीनामिन्दुर्न पूषा वृषा । अभि प्सुर: प्रुषायति व्रजं न आ प्रुषायति ॥ - Rigveda/10/26/3
- स वै दिग्भ्योजायत तस्माद्दिशोजायन्त ॥ - Atharvaveda/13/4/0/34
- स वै दिवोजायत तस्माद्द्यौरधि अजायत ॥ - Atharvaveda/13/4/0/33
- स वै भूमेरजायत तस्माद्भूमिरजायत ॥ - Atharvaveda/13/4/0/35
- स वै यज्ञादजायत तस्माद्यज्ञोजायत ॥ - Atharvaveda/13/4/0/39
- स वै रात्र्या अजायत तस्माद्रात्रिरजायत ॥ - Atharvaveda/13/4/0/30
- स वै वायोरजायत तस्माद्वायुरजायत ॥ - Atharvaveda/13/4/0/32
- सं वो गोष्ठेन सुषदा सं रय्या सं सुभूत्या। अहर्जातस्य यन्नाम तेना वः सं सृजामसि ॥ - Atharvaveda/3/14/0/1
- सं वो मदासो अग्मतेन्द्रेण च मरुत्वता। आदित्येभिश्च राजभिः॥ - Rigveda/1/20/5
- सं वो मनांसि सं व्रता समाकूतीर्नमामसि। अमी ये विव्रता स्थन तान्वः सं नमयामसि ॥ - Atharvaveda/3/8/0/5
- सं वो मनांसि सं व्रता समाकूतीर्नमामसि। अमी ये विव्रता स्थन तान्वः सं नमयामसि ॥ - Atharvaveda/6/94/0/1
- सं वोऽवन्तु सुदानव उत्सा अजगरा उत। मरुद्भिः प्रच्युता मेघा वर्षन्तु पृथिवीमनु ॥ - Atharvaveda/4/15/0/7
- स व्राधतः शवसानेभिरस्य कुत्साय शुष्णं कृपणे परादात् । अयं कविमनयच्छस्यमानमत्कं यो अस्य सनितोत नृणाम् ॥ - Rigveda/10/99/9
- स व्राधतो नहुषो दंसुजूत: शर्धस्तरो नरां गूर्तश्रवाः। विसृष्टरातिर्याति बाळ्हसृत्वा विश्वासु पृत्सु सदमिच्छूर: ॥ - Rigveda/1/122/10
- स शुष्मी कलशेष्वा पुनानो अचिक्रदत् । मदेषु सर्वधा असि ॥ - Rigveda/9/18/7
- स शेवृधमधि धा द्युम्नमस्मे महि क्षत्रं जनाषाळिन्द्र तव्यम्। रक्षा च नो मघोनः पाहि सूरीन्राये च नः स्वपत्या इषे धाः ॥ - Rigveda/1/54/11
- स श्रुधि यः स्मा पृतनासु कासु चिद्दक्षाय्य इन्द्र भरहूतये नृभिरसि प्रतूर्तये नृभि:। यः शूरै: स्व१सनिता यो विप्रैर्वाजं तरुता। तमीशानास इरधन्त वाजिनं पृक्षमत्यं न वाजिनम् ॥ - Rigveda/1/129/2
- स श्वितानस्तन्यतू रोचनस्था अजरेभिर्नानदद्भिर्यविष्ठः। यः पावकः पुरुतमः पुरूणि पृथून्यग्निरनुयाति भर्वन् ॥२॥ - Rigveda/6/6/2
- सं सं स्रवन्तु पशवः समश्वाः समु पूरुषाः। सं धान्यस्य या स्फातिः संस्राव्येण हविषा जुहोमि ॥ - Atharvaveda/2/26/0/3
- सं सं स्रवन्तु सिन्धवः सं वाताः सं पतत्रिणः। इमं यज्ञं प्रदिवो मे जुषन्तां संस्राव्येण हविषा जुहोमि ॥ - Atharvaveda/1/15/0/1
- स सत्पतिः शवसा हन्ति वृत्रमग्ने विप्रो वि पणेर्भर्ति वाजम्। यं त्वं प्रचेत ऋतजात राया सजोषा नप्त्रापां हिनोषि ॥३॥ - Rigveda/6/13/3
- स सत्यसत्वन्महते रणाय रथमा तिष्ठ तुविनृम्ण भीमम्। याहि प्रपथिन्नवसोप मद्रिक्प्र च श्रुत श्रावय चर्षणिभ्यः ॥५॥ - Rigveda/6/31/5
- स सद्म परि णीयते होता मन्द्रो दिविष्टिषु। उत पोता नि षीदति ॥३॥ - Rigveda/4/9/3
- स संनयः स विनयः पुरोहितः स सुष्टुतः स युधि ब्रह्मणस्पतिः। चाक्ष्मो यद्वाजं भरते मती धनादित्सूर्यस्तपति तप्यतुर्वृथा॥ - Rigveda/2/24/9
- स सप्त धीतिभिर्हितो नद्यो अजिन्वदद्रुह: । या एकमक्षि वावृधुः ॥ - Rigveda/9/9/4