Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 48
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - आर्ष्यनुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
क्षि॒प्रं वै तस्या॒दह॑नं॒ परि॑ नृत्यन्ति के॒शिनी॑राघ्ना॒नाः पा॒णिनोर॑सि कुर्वा॒णाः पा॒पमै॑ल॒बम् ॥
स्वर सहित पद पाठतस्य॑ । आ॒ऽदह॑नम् । परि॑। नृ॒त्य॒न्ति॒ । के॒शिनी॑: । आ॒ऽघ्ना॒ना: । पा॒णिना॑ । उर॑सि । कु॒र्वा॒णा: । पा॒पम् । ऐ॒ल॒बम् ॥१०.२॥
स्वर रहित मन्त्र
क्षिप्रं वै तस्यादहनं परि नृत्यन्ति केशिनीराघ्नानाः पाणिनोरसि कुर्वाणाः पापमैलबम् ॥
स्वर रहित पद पाठतस्य । आऽदहनम् । परि। नृत्यन्ति । केशिनी: । आऽघ्नाना: । पाणिना । उरसि । कुर्वाणा: । पापम् । ऐलबम् ॥१०.२॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 48
विषय - वेदवाणी रोकने के दोषों का उपदेश।
पदार्थ -
(क्षिप्रम्) शीघ्र (वै) निश्चय करके (तस्य) उस [वेदनिन्दक] के (आदहनं परि) दाह स्थान के आस-पास (केशिनीः) लम्बे केशोंवाली स्त्रियाँ (पाणिना) हाथ से (उरसि) छाती (आघ्नानाः) पीटती हुईं और (पापम्) अशुभ (ऐलबम्) विलाप ध्वनि (कुर्वाणाः) करती हुईं (नृत्यन्ति) डोलती हैं ॥४८॥
भावार्थ - जब वेदनिन्दक पुरुष खोटे कर्मों के कारण क्लेश के साथ मृत्यु पाता है, तब स्त्री आदि उसके सब कुटुम्बी क्लेश में पड़ते हैं ॥४८॥
टिप्पणी -
४८−(क्षिप्रम्) (वै) एव (तस्य) वेदनिन्दकस्य (आदहनम्) भस्मीकरणस्थानम् (परि) प्रति (नृत्यन्ति) इतस्ततो विचरन्ति (केशिनीः) दीर्घकेशवत्यः (आघ्नानाः) हन हिंसागत्योः−चानश्। ताडयन्त्यः (पाणिना) हस्तेन (उरसि) वक्षसि (कुर्वाणाः) कुर्वत्यः (पापम्) अशुभम् (ऐलबम्) म० ४७। विलापध्वनिम् ॥