Sidebar
अथर्ववेद - काण्ड 12/ सूक्त 5/ मन्त्र 8
सूक्त - अथर्वाचार्यः
देवता - ब्रह्मगवी
छन्दः - भुरिगार्च्येकपदानुष्टुप्
सूक्तम् - ब्रह्मगवी सूक्त
ब्रह्म॑ च क्ष॒त्रं च॑ रा॒ष्ट्रं च॒ विश॑श्च॒ त्विषि॑श्च॒ यश॑श्च॒ वर्च॑श्च॒ द्रवि॑णं च ॥
स्वर सहित पद पाठब्रह्म॑ । च॒ । क्ष॒त्रम् । रा॒ष्ट्रम् । च॒ । विश॑: । च॒ । त्विषि॑: । च॒ । यश॑: । च॑ । वर्च॑: । च॒ । द्रवि॑णम् । च॒ ॥६.२॥
स्वर रहित मन्त्र
ब्रह्म च क्षत्रं च राष्ट्रं च विशश्च त्विषिश्च यशश्च वर्चश्च द्रविणं च ॥
स्वर रहित पद पाठब्रह्म । च । क्षत्रम् । राष्ट्रम् । च । विश: । च । त्विषि: । च । यश: । च । वर्च: । च । द्रविणम् । च ॥६.२॥
अथर्ववेद - काण्ड » 12; सूक्त » 5; मन्त्र » 8
विषय - वेदवाणी रोकने के दोषों का उपदेश।
पदार्थ -
(च) और (ब्रह्म) ब्राह्मण [सब में उत्तम विद्वान् और सद्गुणप्रचारक जन], (च) (क्षत्रम्) क्षत्रिय [विद्वान् चतुर शूरवीर पुरुष] (च) (राष्ट्रम्) राज्य [न्याय से प्रजापालन], (च) और (विशः) प्रजाजन, (च) और (त्विषिः) कान्ति [शरीर की आरोग्यता और आत्मबल], (च) और (यशः) यश [शूरता आदि की प्रख्याति], (च) और (वर्चः) ब्रह्मवर्चस [वेद का विचार और प्रचार], (च) और (द्रविणम्) धन [सम्पत्ति की रक्षा और वृद्धि] ॥८॥
भावार्थ - जो राजा के कुप्रबन्ध से वेदविद्या प्रचार से रुक जाती है, अविद्या के फैलने से वह राजा और उसका राज्य सब नष्ट-भ्रष्ट हो जाता है ॥७-१०॥
टिप्पणी -
८−(ब्रह्म) सर्वोत्तमविद्यायुक्तं सद्गुणप्रचारकं ब्राह्मणोपलक्षणकं कुलम् (च) (क्षत्रम्) विद्याचातुर्यशौर्यवीरत्वयुक्तं क्षत्रियोपलक्षणकं कुलम् (च) (राष्ट्रम्) न्यायेन प्रजापालनम् (च) (विशः) प्रजागणाः (च) (त्विषिः) कान्तिः। शरीरनैरोग्यमात्मबलं च (च) (यशः) शौर्यादिप्रभृत्याख्यातिः (च) (वर्चः) ब्रह्मवर्चसम्। वेदस्याध्ययनं प्रचारणं च (च) (द्रविणम्) धनम्। सम्पत्तिरक्षणं वर्धनं च (च) ॥