Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 17
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
क॒स्ये मृ॑जाना॒अति॑ यन्ति रि॒प्रमायु॒र्दधा॑नाः प्रत॒रं नवी॑यः। आ॒प्याय॑मानाः प्र॒जया॒धने॒नाध॑ स्याम सुर॒भयो॑ गृ॒हेषु॑ ॥
स्वर सहित पद पाठक॒स्यै । मृ॒जाना॑: । अति॑ । य॒न्ति॒ । रि॒प्रम् । आयु॑: । दधा॑ना : । प्र॒ऽत॒रम् । नवी॑य: । आ॒ऽप्याय॑माना: । प्र॒ऽजया॑ । धने॑न । अध॑ । स्या॒म॒ । सु॒र॒भय॑: । गृ॒हेषु॑ ॥३.१७॥
स्वर रहित मन्त्र
कस्ये मृजानाअति यन्ति रिप्रमायुर्दधानाः प्रतरं नवीयः। आप्यायमानाः प्रजयाधनेनाध स्याम सुरभयो गृहेषु ॥
स्वर रहित पद पाठकस्यै । मृजाना: । अति । यन्ति । रिप्रम् । आयु: । दधाना : । प्रऽतरम् । नवीय: । आऽप्यायमाना: । प्रऽजया । धनेन । अध । स्याम । सुरभय: । गृहेषु ॥३.१७॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 17
विषय - पितरों के कर्तव्य का उपदेश।
पदार्थ -
(कस्ये) [अपने] शासनमें (मृजानाः) शुद्ध करते हुए, (प्रतरम्) अधिक श्रेष्ठ और (नवीयः) अधिक नवीन (आयुः) जीवन (दधानाः) धारण करते हुए लोग (रिप्रम्) पाप को (अति) उलाँघ कर (यन्ति) चलते हैं (अध) फिर (प्रजया) प्रजा [सन्तान आदि] से और (धनेन) धन से (आप्यायमानाः) बढ़ते हुए (गृहेषु) घरों में हम (सुरभयः) ऐश्वर्यवान् (स्याम)होवें ॥१७॥
भावार्थ - मनुष्यों को उचित हैकि शासक शुद्धाचारी निष्पाप महात्माओं के जीवन को विचार कर अपने को और अपनीप्रजा अर्थात् सन्तान और राज्य जनों को धनी और ऐश्वर्यवान् बनावें॥१७॥
टिप्पणी -
१७−(कस्ये) अघ्न्यादयश्च। उ० ४।११२। कस गतिशासनयोः-यक्। ज्ञाने। शासने (मृजानाः) शोधकाः (अति) अतीत्य। उल्लङ्घ्य (यन्ति) गच्छन्ति (रिप्रम्)लीरीङोर्ह्रस्वः पुट् च तरौ श्लेषणकुत्सनयोः। उ०। ५।५५। रीङ् स्रवणे-र प्रत्ययःकुत्सने धातोर्ह्रस्वत्वं पुट् च प्रत्ययस्य। रपो रिप्रमिति पापनामनी भवतः-निरु०४।२१। पापं कष्टम् (आयुः) जीवनम् (दधानाः) धारयन्तः (प्रतरम्) अधिकश्रेष्ठम् (नवीयः) नव-ईयसुन्। नवीनतरम् (आप्यायमानाः) प्रवर्धमानाः (प्रजया)सन्तानराज्यजनरूपया (धनेन) (अध) अथ (स्याम) (सुरभयः) अ० १२।१।२३। षुरऐश्वर्यदीप्त्योः-अभिच्। ऐश्वर्यवन्तः (गृहेषु) निवासेषु ॥