Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 20
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ये अत्र॑यो॒अङ्गि॑रसो॒ नव॑ग्वा इ॒ष्टाव॑न्तो राति॒षाचो॒ दधा॑नाः। दक्षि॑णावन्तः सु॒कृतो॒ यउ॒ स्थासद्या॒स्मिन्ब॒र्हिषि॑ मादयध्वम् ॥
स्वर सहित पद पाठये । अत्र॑य: । अङ्गि॑रस: । नव॑ऽग्वा: । इ॒ष्टऽव॑न्त: । रा॒ति॒ऽसाच॑: । दधा॑ना: । दक्षि॑णाऽवन्त: । सुऽकृत॑: । ये । ऊं॒ इति॑ । स्थ । आ॒ऽसद्य॑ । अ॒स्मिन् । ब॒र्हिषि॑ । मा॒द॒य॒ध्व॒म् ॥३.२०॥
स्वर रहित मन्त्र
ये अत्रयोअङ्गिरसो नवग्वा इष्टावन्तो रातिषाचो दधानाः। दक्षिणावन्तः सुकृतो यउ स्थासद्यास्मिन्बर्हिषि मादयध्वम् ॥
स्वर रहित पद पाठये । अत्रय: । अङ्गिरस: । नवऽग्वा: । इष्टऽवन्त: । रातिऽसाच: । दधाना: । दक्षिणाऽवन्त: । सुऽकृत: । ये । ऊं इति । स्थ । आऽसद्य । अस्मिन् । बर्हिषि । मादयध्वम् ॥३.२०॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 20
विषय - पितरों के कर्तव्य का उपदेश।
पदार्थ -
(ये) जो तुम (अत्रयः)सदा प्राप्तियोग्य, (अङ्गिरसः) ज्ञानवान्, (नवग्वाः) स्तुतियोग्य चलनेवाले, (इष्टवन्तः) यज्ञ, तप, वेदाध्ययन आदि वाले, (रातिषाचः) दानों की वर्षा करनेवालेऔर (दधानाः) पोषण करनेवाले [हो]। (उ) और (ये) जो तुम (दक्षिणावन्तः) दक्षिणा [प्रतिष्ठा के दान] वाले (सुकृतः) सुकर्मी जन (स्थ) हो, वे तुम (अस्मिन्) इस (बर्हिषि) उत्तम आसन पर (आसद्य) बैठकर (मादयध्वम्) आनन्द करो ॥२०॥
भावार्थ - जो विद्वान् महर्षिविद्याप्रचारक धर्मात्मा और बहु प्रतिष्ठित होवें, गृहस्थ आदि लोग सत्कार करकेउनको प्रसन्न करें ॥२०॥
टिप्पणी -
२०−(ये) यूयम् (अत्रयः) सदा प्राप्तव्याः (अङ्गिरसः) अगिगतौ-असि, इरुडागमः। ज्ञानिनः (नवग्वाः) अ० १४।१।५६। णु स्तुतौ-अप्+गम्लृ गतौ−ड्वप्रत्ययः। स्तोतव्यचरित्राः (इष्टवन्तः) अ० २।१२।३। यज्ञतपोवेदाध्ययनादिमन्तः (रातिषाचः) भजो ण्विः। पा० ३।२।६२। इति बाहुलकात् षच सेचने−ण्वि। धनानांवर्षयितारः (दधानाः) पोषणं कुर्वाणाः (दक्षिणावन्तः) प्रतिष्ठादानोपेताः (सुकृतः) सुकर्माणः (ये) (उ) चार्थे (स्थ) भवथ (आसद्य) उपविश्य (अस्मिन्) (बर्हिषि) उत्तमासने (मादयध्वम्) हृष्टा भवत ॥