Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 62
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
वि॒वस्वा॑न्नोअमृत॒त्वे द॑धातु॒ परै॑तु मृ॒त्युर॒मृतं॑ न॒ ऐतु॑। इ॑मान्रक्षतु॒ पुरु॑षा॒नाज॑रि॒म्णो मो ष्वेषा॒मस॑वो य॒मं गुः॑ ॥
स्वर सहित पद पाठवि॒वस्वा॑न् । न॒: । अ॒मृ॒त॒ऽत्वे । द॒धा॒तु॒ । परा॑ । ए॒तु॒ । मृ॒त्यु॒: । अ॒मृत॑म् । न॒: । आ । ए॒तु॒ । इ॒मान् । र॒क्ष॒तु॒ । पुरु॑षान् । आ । ज॒रि॒म्ण: । मो इति॑ । सु । ए॒षा॒म् । अस॑व: । य॒मम् । गु॒: ॥३.६२॥
स्वर रहित मन्त्र
विवस्वान्नोअमृतत्वे दधातु परैतु मृत्युरमृतं न ऐतु। इमान्रक्षतु पुरुषानाजरिम्णो मो ष्वेषामसवो यमं गुः ॥
स्वर रहित पद पाठविवस्वान् । न: । अमृतऽत्वे । दधातु । परा । एतु । मृत्यु: । अमृतम् । न: । आ । एतु । इमान् । रक्षतु । पुरुषान् । आ । जरिम्ण: । मो इति । सु । एषाम् । असव: । यमम् । गु: ॥३.६२॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 62
विषय - अभय पाने का उपदेश।
पदार्थ -
(विवस्वान्) प्रकाशमयपरमेश्वर (नः) हमें (अमृतत्वे) अमरपन [यश] के बीच (दधातु) रक्खे, (मृत्युः) [निर्धनता आदि दुःख] (परा) दूर (एतु) जावे, (अमृतम्) अमरण [धनाढ्यता] (नः) हममें (आ एतु) आवे। वह [परमेश्वर] (इमान्) इन (पुरुषान्) पुरुषों को (जरिम्णः)जीवन की हानि से (आ) सब प्रकार (रक्षतु) बचावे, (एषाम्) इन के (असवः) प्राण (यमम्) मृत्यु को (सु) कष्ट के साथ (मो गुः) कभी न जावें ॥६२॥
भावार्थ - पुरुषार्थी लोगपरमात्मा के नियम से कभी भूखे-प्यासे नहीं रहते, वे धनवान् होकर अपना जीवन सुखसे बिताते हैं ॥६२॥
टिप्पणी -
६२−(विवस्वान्) प्रकाशमयः परमात्मा (नः) अस्मान् (अमृतत्वे)अमरत्वे। यशसि (दधातु) धारयतु (परा) दूरे (एतु) गच्छतु (मृत्युः) मरणम्।निर्धनतादिदुःखम् (अमृतम्) अमरणम्। धनाढ्यत्वम् (नः) अस्मान् (ऐतु) आगच्छतु (इमान्) उपस्थितान् (रक्षतु) पातु (पुरुषान्) (आ) समन्तात् (जरिम्णः)जरा-इमनिच्। वयोहानेः सकाशात् (मो गुः) इण् गतौ, माङि लुङि रूपम्। मैव गच्छन्तु (सु) कृच्छ्रेण। कष्टेन (एषाम्) पुरुषाणाम् (असवः) प्राणाः (यमम्) मृत्युम् ॥