Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 53
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
इ॒मम॑ग्ने चम॒संमा वि जि॒ह्वरः॑ प्रि॒यो दे॒वाना॑मु॒त सो॒म्याना॑म्। अ॒यं यश्च॑म॒सोदे॑व॒पान॒स्तस्मि॑न्दे॒वा अ॒मृता॑ मादयन्ताम् ॥
स्वर सहित पद पाठइ॒मम् । अ॒ग्ने॒ । च॒म॒सम् । मा । वि । जि॒ह्व॒र॒: । प्रि॒य: । दे॒वाना॑म् । उ॒त । सो॒म्याना॑म् । अ॒यम् । य: । च॒म॒स: । दे॒व॒ऽपान॑: । तस्मि॑न् । दे॒वा: । अ॒मृता॑: । मा॒द॒य॒न्ता॒म् ॥३.५३॥
स्वर रहित मन्त्र
इममग्ने चमसंमा वि जिह्वरः प्रियो देवानामुत सोम्यानाम्। अयं यश्चमसोदेवपानस्तस्मिन्देवा अमृता मादयन्ताम् ॥
स्वर रहित पद पाठइमम् । अग्ने । चमसम् । मा । वि । जिह्वर: । प्रिय: । देवानाम् । उत । सोम्यानाम् । अयम् । य: । चमस: । देवऽपान: । तस्मिन् । देवा: । अमृता: । मादयन्ताम् ॥३.५३॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 53
विषय - घर की रक्षा का उपदेश।
पदार्थ -
(अग्ने) हे विद्वान् ! (इमम्) इस (चमसम्) खाने योग्य अन्न को (वि) बिगाड़ कर (मा जिह्वरः) मत नष्ट कर, वह [अन्न] (देवानाम्) विद्वानों का (उत) और (सोम्यानाम्) ऐश्वर्यवालों का (प्रियः) प्रिय है। (अयम्) यह (यः) जो (चमसः) अन्न (देवपानः) इन्द्रियों कारक्षक है, (तस्मिन्) उस में (अमृताः) अमर [न मरे हुए पुरुषार्थी] (देवाः)व्यवहारकुशल लोग (मादयन्ताम्) [सबको] तृप्त करें ॥५३॥
भावार्थ - मनुष्य शुद्ध अन्न आदिपदार्थ के सेवन से विद्वान् और ऐश्वर्यवान् होकर शरीररक्षा करके सबको सुखीरक्खें ॥५३॥यह मन्त्र कुछ भेद से ऋग्वेद में है−१०।१६।८ ॥
टिप्पणी -
५३−(इमम्) उपस्थितम् (चमसम्) अत्यविचमि०। उ० ३।११७। चमु अदने-असच्। भक्षणीयं पदार्थम् (वि) विकृत्य (मा जिह्वरः) ह्वृ कौटिल्ये-णिचि चङि लुङि रूपम्। कुटिलं नष्टं मा कार्षीः (प्रियः) प्रीतिकरः (देवानाम्) विदुषाम् (उत) अपि च (सोम्यानाम्)ऐश्वर्ययोग्यानाम् (अयम्) (यः) (चमसः) भक्षणीयपदार्थः (देवपानः) पारक्षणे-ल्युट्। इन्द्रियरक्षणः (तस्मिन्) पदार्थे (देवाः) व्यवहारकुशलाः (अमृताः)अमराः। पुरुषार्थवन्तः (मादयन्ताम्) तर्पयन्तु सर्वान् ॥