Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 41
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
दे॒वेभ्यः॒कम॑वृणीत मृ॒त्युं प्र॒जायै॒ किम॒मृतं॒ नावृ॑णीत। बृह॒स्पति॑र्य॒ज्ञम॑तनुत॒ऋषिः॑ प्रि॒यां य॒मस्त॒न्वमा रि॑रेच ॥
स्वर सहित पद पाठदे॒वेभ्य॑: । कम् । अ॒वृ॒णी॒त॒ । मृ॒त्युम् । प्र॒ऽजायै॑ । किम् । अ॒मृत॑म् । न । अ॒वृ॒णी॒त॒ । बृह॒स्पति॑: । य॒ज्ञम् । अ॒त॒नु॒त॒ । ऋषि॑: । प्रि॒याम् । य॒म: । त॒न्व॑म् । आ । रि॒रे॒च॒ ॥३.४१॥
स्वर रहित मन्त्र
देवेभ्यःकमवृणीत मृत्युं प्रजायै किममृतं नावृणीत। बृहस्पतिर्यज्ञमतनुतऋषिः प्रियां यमस्तन्वमा रिरेच ॥
स्वर रहित पद पाठदेवेभ्य: । कम् । अवृणीत । मृत्युम् । प्रऽजायै । किम् । अमृतम् । न । अवृणीत । बृहस्पति: । यज्ञम् । अतनुत । ऋषि: । प्रियाम् । यम: । तन्वम् । आ । रिरेच ॥३.४१॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 41
विषय - मनुष्यों के कर्तव्य का उपदेश।
पदार्थ -
[जिसने] (देवेभ्यः)उत्तम गुणों के लिये (कम्) सुख से (मृत्युम्) मृत्यु [अहङ्कारत्याग] को (अवृणीत)अङ्गीकार किया है, उस ने (प्रजायै) प्रजा के लिये (किम्) क्या (अमृतम्) अमृत [अमरपन मोक्षपद] को (न) नहीं (अवृणीत) अङ्गीकार किया ? (बृहस्पतिः) उस बड़े-बड़ेव्यवहारों के रक्षक (ऋषिः) सन्मार्गदर्शक, (यमः) नियमवाले पुरुष ने (यज्ञम्)पूजनीय व्यवहार को (अतनुत) फैलाया है और (प्रियाम्) हित करनेवाली (तन्वम्) उपकारक्रिया को (आ) सब ओर से (रिरेच) संयुक्त किया है ॥४१॥
भावार्थ - जो स्त्री-पुरुषश्रेष्ठ गुणों की प्राप्ति के लिये अहङ्कार, अर्थात् आपा छोड़ आत्मदान करते हैं, वे ही संसार को मोक्षपद देते और पूजनीय व्यवहारों को फैलाकर अवश्य महान् उपकारकरते हैं ॥४१॥
टिप्पणी -
४१−(देवेभ्यः) उत्तमगुणानां प्राप्तये (कम्) सुखेन (अवृणीत)अङ्गीकृतवान् (मृत्युम्) मरणम्। अहंकारत्यागम्। आत्मसमर्पणम् (प्रजायै)मनुष्यादिरूपायै (किम्) (अमृतम्) अमरणम्। मोक्षपदम् (न) निषेधे (अवृणीत)स्वीकृतवान् (बृहस्पतिः) बृहतां व्यवहाराणां रक्षकः (यज्ञम्) पूजनीयं व्यवहारम् (अतनुत) विस्तारितवान् (यमः) सन्मार्गदर्शकः (प्रियाम्) हितकरीम् (यमः)नियमवान्। जितेन्द्रियः पुरुषः (तन्वम्) उपकारक्रियाम् (आ) समन्तात् (रिरेच)रिचिर् विरेचने, रिच वियोजनसम्पर्चनयोः-लिट्। संयोजितवान् ॥