Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 73
सूक्त - यम, मन्त्रोक्त
देवता - त्रिष्टुप्
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
ए॒तदा रो॑ह॒ वय॑उन्मृजा॒नः स्वा इ॒ह बृ॒हदु॑ दीदयन्ते। अ॒भि प्रेहि॑ मध्य॒तो माप॑ हास्थाःपितॄ॒णां लो॒कं प्र॑थ॒मो यो अत्र॑ ॥
स्वर सहित पद पाठए॒तत् । आ । रो॒ह॒ । वय॑: । उ॒त्ऽमृ॒जा॒न: । स्वा: । इ॒ह । बृ॒हत् । ऊं॒ इति॑ । दी॒द॒य॒न्ते॒ । अ॒भि । प्र । इ॒हि॒ । म॒ध्य॒त: । मा ।अप॑ । हा॒स्था॒: । पि॒तॄणाम् । लो॒कम् । प्र॒थ॒म:। य: । अत्र॑ ॥३.७३॥
स्वर रहित मन्त्र
एतदा रोह वयउन्मृजानः स्वा इह बृहदु दीदयन्ते। अभि प्रेहि मध्यतो माप हास्थाःपितॄणां लोकं प्रथमो यो अत्र ॥
स्वर रहित पद पाठएतत् । आ । रोह । वय: । उत्ऽमृजान: । स्वा: । इह । बृहत् । ऊं इति । दीदयन्ते । अभि । प्र । इहि । मध्यत: । मा ।अप । हास्था: । पितॄणाम् । लोकम् । प्रथम:। य: । अत्र ॥३.७३॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 73
विषय - गृहाश्रम में मनुष्य के कर्तव्य का उपदेश।
पदार्थ -
[हे मनुष्य !] (एतत्)इस (वयः) जीवन को (उन्मृजानः) शुद्ध करता हुआ तू (आ रोह) ऊँचा चढ़, (ते) तेरे (स्वाः) बान्धव लोग (इह) यहाँ पर (बृहत्) बहुत (हि) ही (दीदयन्ते) प्रकाशमानहैं। तू (अभि) सब ओर (प्र) आगे को (इहि) चल, (मध्यतः) बीच से (पितॄणाम्) पितरोंके (लोकम्) उस समाज को (अप) बिलगा कर (मा हास्थाः) मत जा, (यः) जो [समाज] (अत्र)यहाँ पर (प्रथमः) मुख्य है ॥७३॥
भावार्थ - मनुष्य अपने यशस्वीबान्धवों के समान अपना जीवन उत्तम बनावें, और सब श्रेष्ठ कामों को दृढ़ता सेआरम्भ कर के सर्वथा समाप्त कर महापुरुषार्थियों में स्थान पावें ॥७३॥ इतितृतीयोऽनुवाकः ॥
टिप्पणी -
७३−(एतत्) दृश्यमानम् (आ रोह) आरुह्य प्राप्नुहि (वयः) जीवनम् (उन्मृजानः) परिशोधयन् (स्वाः) ज्ञातयः (इह) अस्मिंल्लोके (बृहत्) यथा भवति तथा।अधिकम् (दीदयन्ते) दीदयतिर्ज्वलतिकर्मा निघ० १।१६। दीदयतिर्नैरुक्तो धातुः-पश्यतनिरु० १०।१९। दीप्यन्ते (अभि) सर्वतः (प्र) प्रकर्षेण अग्रे (इहि) गच्छ (मध्यतः)मध्यभागात् (अप) अपेत्य वियुज्य (मा हास्थाः) ओहाङ् गतौ-लुङ्। मा गच्छ (पितॄणाम्) पालकानाम्। (लोकम्) समाजम् (प्रथमः) मुख्यः (यः) लोकः (अत्र) अस्मिन्संसारे ॥