Sidebar
अथर्ववेद - काण्ड 18/ सूक्त 3/ मन्त्र 5
सूक्त - अग्नि
देवता - त्रिपदा निचृत गायत्री
छन्दः - अथर्वा
सूक्तम् - पितृमेध सूक्त
उप॒ द्यामुप॑वेत॒समव॑त्तरो न॒दीना॑म्। अग्ने॑ पि॒त्तम॒पाम॑सि ॥
स्वर सहित पद पाठउप॑ । द्याम् । उप॑ । वे॒त॒सम् । अव॑त्ऽतर: । न॒दीना॑म् । अग्ने॑ । पि॒त्तम् । अ॒पाम् । अ॒सि॒ ॥३.४॥
स्वर रहित मन्त्र
उप द्यामुपवेतसमवत्तरो नदीनाम्। अग्ने पित्तमपामसि ॥
स्वर रहित पद पाठउप । द्याम् । उप । वेतसम् । अवत्ऽतर: । नदीनाम् । अग्ने । पित्तम् । अपाम् । असि ॥३.४॥
अथर्ववेद - काण्ड » 18; सूक्त » 3; मन्त्र » 5
विषय - उन्नति करने का उपदेश।
पदार्थ -
(अग्ने) हे विद्वान्पुरुष ! (द्याम्) विद्याप्रकाश को (उप) पाकर और (नदीनाम्) स्तुतियों के (वेतसम्) विस्तार को (उप) आदर से (अवत्तरः) अधिक रक्षा करता हुआ तू (अपाम्)प्राणों का (पित्तम्) तेज (असि) है ॥५॥
भावार्थ - मनुष्य विद्या प्राप्तकरके स्तुतियोग्य व्यवहारों की रक्षा करता हुआ सब प्राणियों का बल बढ़ावे ॥५॥इसमन्त्र का मिलान करो यजुर्वेद १७।६ ॥
टिप्पणी -
५−(उप) उपेत्य। प्राप्य (द्याम्)विद्याप्रकाशम् (उप) पूजायाम् (वेतसम्) वेञस्तुट् च। उ० ३।११८। वेञ्तन्तुसन्ताने-असच् तुट् च। विस्तारम् (अवत्तरः) अव रक्षणे-शतृ, तरप्। अतिशयेनअवन् रक्षन् (नदीनाम्) णद अव्यक्ते शब्दे भाषायां स्तुतौ च-अच्, ङीप्।नदतिरर्चतिकर्मा-निघ० ३।१४। ऋषिर्नदो भवति नदतेः स्तुतिकर्मणः-निरु० ५।२।स्तुतीनाम् (अग्ने) हे विद्वन् पुरुष (पित्तम्) अपि+देङ् पालने-क्त। अचउपसर्गात्तः। पा० ७।४।४७। इति तादेशः। अपिदीयते रक्ष्यते शरीरं येन तत्। तेजः (अपाम्) प्राणानाम् (असि) ॥