Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 10
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    यास्ते॒ विश॒स्तप॑सः संबभू॒वुर्व॒त्सं गा॑य॒त्रीमनु॒ ता इ॒हागुः॑। तास्त्वा॑ विशन्तु॒ मन॑सा शि॒वेन॒ संमा॑ता व॒त्सो अ॒भ्येतु॒ रोहि॑तः ॥

    स्वर सहित पद पाठ

    या: । ते॒ । विश॑: । तप॑स: । स॒म्ऽब॒भू॒वु: । व॒त्सम् । गा॒य॒त्रीम् । अनु॑ । ता: । इ॒ह । आ । अ॒गु॒: । ता: । त्वा॒ । आ । वि॒श॒न्तु॒ । मन॑सा । शि॒वेन॑ । सम्ऽमा॑ता । व॒त्स: । अ॒भि । ए॒तु॒ । रोहि॑त: ॥१.१०॥


    स्वर रहित मन्त्र

    यास्ते विशस्तपसः संबभूवुर्वत्सं गायत्रीमनु ता इहागुः। तास्त्वा विशन्तु मनसा शिवेन संमाता वत्सो अभ्येतु रोहितः ॥

    स्वर रहित पद पाठ

    या: । ते । विश: । तपस: । सम्ऽबभूवु: । वत्सम् । गायत्रीम् । अनु । ता: । इह । आ । अगु: । ता: । त्वा । आ । विशन्तु । मनसा । शिवेन । सम्ऽमाता । वत्स: । अभि । एतु । रोहित: ॥१.१०॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 10

    टिप्पणीः - १०−(याः) (ते) तुभ्यम् (विशः) प्रजाः (तपसः) ऐश्वर्य्यरूपात् परमेश्वरात् (संबभूवुः) उत्पन्ना बभूवुः (वत्सम्) वृतॄवदिवचिवसि०। उ० ३।६२। वद कथने-स प्रत्ययः। महोपदेशकम् (गायत्रीम्) अ० १०।८।४१। गै गाने-अत्रन्, णित्, युक् ङीप् च। गायत्री गायतेः स्तुतिकर्मणः-निरु० ७।१२। स्तुत्यां वेदवाचम् (अनु) अनुसृत्य (ताः) प्रजाः (इह) (आगुः) आगमन् (ताः) (त्वां) (आविशन्तु) प्रविशन्तु (मनसा) मननेन (शिवेन) मङ्गलकारकेण (संमाता) सामान्यजननी (वत्सः) महोपदेशकः (अभि) सर्वतः (एतु) प्राप्नोतु (रोहितः) सर्वोत्पादक ॥

    इस भाष्य को एडिट करें
    Top