अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 23
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
इ॒दं सदो॒ रोहि॑णी॒ रोहि॑तस्या॒सौ पन्थाः॒ पृष॑ती॒ येन॒ याति॑। तां ग॑न्ध॒र्वाः क॒श्यपा॒ उन्न॑यन्ति॒ तां र॑क्षन्ति क॒वयोऽप्र॑मादम् ॥
स्वर सहित पद पाठइ॒दम् । सद॑: । रोहि॑णी । रोहि॑तस्य । अ॒सौ । पन्था॑: । पृष॑ती । येन॑ । याति॑ । ताम् । ग॒न्ध॒र्वा: । क॒श्यपा॑: । उत् । न॒य॒न्ति॒ । क॒वय॑: । अप्र॑ऽमादम् ॥१.२३॥
स्वर रहित मन्त्र
इदं सदो रोहिणी रोहितस्यासौ पन्थाः पृषती येन याति। तां गन्धर्वाः कश्यपा उन्नयन्ति तां रक्षन्ति कवयोऽप्रमादम् ॥
स्वर रहित पद पाठइदम् । सद: । रोहिणी । रोहितस्य । असौ । पन्था: । पृषती । येन । याति । ताम् । गन्धर्वा: । कश्यपा: । उत् । नयन्ति । कवय: । अप्रऽमादम् ॥१.२३॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 23
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २३-उत्पत्तिशक्तिः (रोहितस्य) म० १। सर्वोत्पादकस्य परमेश्वरस्य (असौ) (पन्थाः) मार्गः (पृषती) म० २१। सेचनशीला प्रकृतिः (येन) पथा (याति) गच्छति (ताम्) प्रकृतिम् (गन्धर्वाः) कॄगॄशॄदॄभ्यो वः। उ० १।१५५। गो+धृञ् धारणे-व प्रत्ययः, गोर्गमादेशः। गोः पृथिव्या जलस्य वा धारकाः। मेघाः (कश्यपाः) अ० १।१४।४। कश शब्दे-करणे यत्। कशति अनेनेति कश्यं रसः। कश्य+पा पाने-क। रसस्य पानशीलाः किरणाः (उन्नयन्ति) उन्नतां व्याख्यातां कुर्वन्ति (ताम्) (रक्षन्ति) (कवयः) मेधाविनः (अप्रमादम्) सावधानं यथा तथा ॥
इस भाष्य को एडिट करें