Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 55
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - ककुम्मती बृहतीगर्भा पथ्यापङ्क्तिः सूक्तम् - अध्यात्म प्रकरण सूक्त

    स य॒ज्ञः प्र॑थ॒मो भू॒तो भव्यो॑ अजायत। तस्मा॑द्ध जज्ञ इ॒दं सर्वं॒ यत्किं चे॒दं वि॒रोच॑ते॒ रोहि॑तेन॒ ऋषि॒णाभृ॑तम् ॥

    स्वर सहित पद पाठ

    स: । य॒ज्ञ: । प्र॒थ॒म: । भू॒त: । भव्य॑: । अ॒जा॒य॒त॒ । तस्मा॑त् । ह॒ । ज॒ज्ञे॒ । इ॒दम् । सर्व॑म् । यत् । किम् । च॒ । इ॒दम् । वि॒ऽरो॑चते । रोहि॑तेन । ऋषि॑णा । आऽभृ॑तम् ॥१.५५॥


    स्वर रहित मन्त्र

    स यज्ञः प्रथमो भूतो भव्यो अजायत। तस्माद्ध जज्ञ इदं सर्वं यत्किं चेदं विरोचते रोहितेन ऋषिणाभृतम् ॥

    स्वर रहित पद पाठ

    स: । यज्ञ: । प्रथम: । भूत: । भव्य: । अजायत । तस्मात् । ह । जज्ञे । इदम् । सर्वम् । यत् । किम् । च । इदम् । विऽरोचते । रोहितेन । ऋषिणा । आऽभृतम् ॥१.५५॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 55

    टिप्पणीः - ५५−(सः) प्रसिद्धः (यज्ञः) यजनीयः परमेश्वरः (प्रथमः) आदिमः (भूतः) भूतकाले भवः (भव्यः) भविष्यति भवः (अजायत) प्रादुरभवत् (तस्मात्) परमेश्वरात् (ह) एव (जज्ञे) प्रादुर्बभूव (इदम्) (सर्वम्) जगत् (यत्) (किं च) किमपि (इदम्) (विरोचते) विविधं दीप्यते दृश्यते (रोहितेन) सर्वोत्पादकेन (ऋषिणा) सर्वदर्शिना महाज्ञानिना (आभृतम्) समन्तात् पोषितम् ॥

    इस भाष्य को एडिट करें
    Top