अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 43
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - विराण्महाबृहती
सूक्तम् - अध्यात्म प्रकरण सूक्त
आ॒रोह॒न्द्याम॒मृतः॒ प्राव॑ मे॒ वचः॑। उत्त्वा॑ य॒ज्ञा ब्रह्म॑पूता वहन्त्यध्व॒गतो॒ हर॑यस्त्वा वहन्ति ॥
स्वर सहित पद पाठआ॒ऽरोह॑न् । द्याम् । अ॒मृत॑: । प्र । अ॒व॒ । मे॒ । वच॑: । उत् । त्वा॒ । य॒ज्ञा: । ब्रह्म॑ऽपूता: । व॒ह॒न्ति॒ । अ॒ध्व॒ऽगत॑: । हर॑य: । त्वा॒ । व॒ह॒न्ति॒ ॥१.४३॥
स्वर रहित मन्त्र
आरोहन्द्याममृतः प्राव मे वचः। उत्त्वा यज्ञा ब्रह्मपूता वहन्त्यध्वगतो हरयस्त्वा वहन्ति ॥
स्वर रहित पद पाठआऽरोहन् । द्याम् । अमृत: । प्र । अव । मे । वच: । उत् । त्वा । यज्ञा: । ब्रह्मऽपूता: । वहन्ति । अध्वऽगत: । हरय: । त्वा । वहन्ति ॥१.४३॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 43
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ४३−(आरोहन्) अधितिष्ठन् (द्याम्) गमेर्डोः। उ० २।६७। द्युत दीप्तौ, यद्वा द्यु अभिगमने−डोस्। दीप्तिम् (अमृतः) अमरः। अविनाशी परमेश्वरः (प्र) प्रकर्षेण (अव) अव रक्षणश्रवणादिषु। शृणु (मे) मम (वचः) वचनम्। अन्यत् पूर्ववत् म० ३६ ॥
इस भाष्य को एडिट करें