अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 9
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
यास्ते॒ रुहः॑ प्र॒रुहो॒ यास्त॑ आ॒रुहो॒ याभि॑रापृ॒णासि॒ दिव॑म॒न्तरि॑क्षम्। तासां॒ ब्रह्म॑णा॒ पय॑सा वावृधा॒नो वि॒शि रा॒ष्ट्रे जा॑गृहि॒ रोहि॑तस्य ॥
स्वर सहित पद पाठया: । ते॒ । रुह॑: । प्र॒ऽरुह॑: । या: । ते॒ । आ॒ऽरुह॑: । याभि॑: । आ॒ऽपृ॒णासि॑ । दिव॑म् । अ॒न्तरि॑क्षम् । तासा॑म् । ब्रह्म॑णा । पय॑सा । व॒वृ॒धा॒न: । वि॒शि । रा॒ष्ट्रे । जा॒गृ॒हि॒ । रोहि॑तस्य ॥१.९॥
स्वर रहित मन्त्र
यास्ते रुहः प्ररुहो यास्त आरुहो याभिरापृणासि दिवमन्तरिक्षम्। तासां ब्रह्मणा पयसा वावृधानो विशि राष्ट्रे जागृहि रोहितस्य ॥
स्वर रहित पद पाठया: । ते । रुह: । प्रऽरुह: । या: । ते । आऽरुह: । याभि: । आऽपृणासि । दिवम् । अन्तरिक्षम् । तासाम् । ब्रह्मणा । पयसा । ववृधान: । विशि । राष्ट्रे । जागृहि । रोहितस्य ॥१.९॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 9
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ९−(याः) (ते) तुभ्यम् (रुहः) म० ८। सृष्टिसामग्रीः (प्ररुहः) म० ८। सृष्टिवस्तूनि (याः) (ते) तुभ्यम् (आरुहः) सृष्टिस्थितीः (याभिः) (आपृणासि) तस्य सः। आपृणाति। समन्तात् पूरयति रोहितः (दिवम्) आकाशम् (अन्तरिक्षम्) (तासाम्) (ब्रह्मणा) अन्नेन-निघ० २।७। (पयसा) उदकेन-निघ० १।१२। (वावृधानः) छान्दसो दीर्घः। वृद्धिं कुर्वाणः (विशि) प्रजायाम् (राष्ट्रे) राज्ये (जागृहि) जागृतो भव (रोहितस्य) म० १। सर्वोत्पादकस्य ॥
इस भाष्य को एडिट करें