अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 7
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
रोहि॑तो॒ द्यावा॑पृथि॒वी अ॑दृंह॒त्तेन॒ स्व स्तभि॒तं तेन॒ नाकः॑। तेना॒न्तरि॑क्षं॒ विमि॑ता॒ रजां॑सि॒ तेन॑ दे॒वा अ॒मृत॒मन्व॑विन्दन् ॥
स्वर सहित पद पाठरोहि॑त: । द्यावा॑पृथि॒वी इति॑ । अ॒दृं॒ह॒त् । तेन॑ । स्व᳡: । स्त॒भि॒तम् । तेन॑ । नाक॑: । तेन॑ । अ॒न्तरि॑क्षम् । विऽमि॑ता । रजां॑सि । तेन॑ । दे॒वा: । अ॒मृत॑म् । अनु॑ । अ॒वि॒न्द॒न् ॥१.७॥
स्वर रहित मन्त्र
रोहितो द्यावापृथिवी अदृंहत्तेन स्व स्तभितं तेन नाकः। तेनान्तरिक्षं विमिता रजांसि तेन देवा अमृतमन्वविन्दन् ॥
स्वर रहित पद पाठरोहित: । द्यावापृथिवी इति । अदृंहत् । तेन । स्व: । स्तभितम् । तेन । नाक: । तेन । अन्तरिक्षम् । विऽमिता । रजांसि । तेन । देवा: । अमृतम् । अनु । अविन्दन् ॥१.७॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 7
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ७−(रोहितः) म० १। (द्यावापृथिवी) (अदृंहत्) दृढीकृतवान् (तेन) रोहितेन (स्वः) सामान्यसुखम्। अभ्युदयः (स्तभितम्) दृढीकृतम् (तेन) (नाकः) विशेषसुखम्। निःश्रेयसम्। मोक्षसुखम् (तेन) (अन्तरिक्षम्) (विमिता) विविधं परिमितानि (रजांसि) लोकाः (तेन) रोहितेन (देवाः) विद्वांसः (अमृतम्) अमरणम्। पुरुषार्थम् (अनु) निरन्तरम् (अविन्दन्) अलभन्त ॥
इस भाष्य को एडिट करें