अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 27
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
वि मि॑मीष्व॒ पय॑स्वतीं घृ॒ताचीं॑ दे॒वानां॑ धे॒नुरन॑पस्पृगे॒षा। इन्द्रः॒ सोमं॑ पिबतु॒ क्षेमो॑ अस्त्व॒ग्निः प्र स्तौ॑तु॒ वि मृधो॑ नुदस्व ॥
स्वर सहित पद पाठवि । मि॒मी॒ष्व॒ । पय॑स्वतीम् । घृ॒ताची॑म् । दे॒वाना॑म् । धे॒नु: । अन॑पऽस्पृक् । ए॒षा । इन्द्र॑: ।सोम॑म् । पि॒ब॒तु॒ । क्षेम॑: । अ॒स्तु॒ । अ॒ग्नि: । प्र । स्तौ॒तु॒ । वि । मृध॑: । नु॒द॒स्व॒ ॥१.२७॥
स्वर रहित मन्त्र
वि मिमीष्व पयस्वतीं घृताचीं देवानां धेनुरनपस्पृगेषा। इन्द्रः सोमं पिबतु क्षेमो अस्त्वग्निः प्र स्तौतु वि मृधो नुदस्व ॥
स्वर रहित पद पाठवि । मिमीष्व । पयस्वतीम् । घृताचीम् । देवानाम् । धेनु: । अनपऽस्पृक् । एषा । इन्द्र: ।सोमम् । पिबतु । क्षेम: । अस्तु । अग्नि: । प्र । स्तौतु । वि । मृध: । नुदस्व ॥१.२७॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 27
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २७−(वि) विविधम् (मिमीष्व) माङ् माने शब्दे च। मानेन प्राप्नुहि (पयस्वतीम्) अन्नवतीम् (घृताचीम्) घृतं जलमञ्चयति प्रापयति या तां प्रकृतिम् (देवानाम्) विदुषाम् (धेनुः) अ० ३।१०।१। धि धारणे तर्पणे च-न। धेनुर्धवतेर्वा धिनोतेर्वा-निरु० ११।४२। तर्पयित्री (अनपस्पृक्) स्पृश स्पर्शने-क्विप्। अप्रतिबाधिका (एषा) प्रकृतिः (इन्द्रः) ऐश्वर्यवान् मनुष्यः (सोमम्) अमृतम्। मोक्षसुखम् (पिबतु) अनुभवतु (क्षेमः) सकुशलः (अस्तु) (अग्निः) विद्वान् पुरुषः (प्र) प्रकर्षेण (स्तौतु) प्रशंसतु (वि) पृथग्भावे (मृधः) हिंसकान् (नुदस्व) प्रेरय ॥
इस भाष्य को एडिट करें