Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 8
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - भुरिक्त्रिष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    वि रोहि॑तो अमृशद्वि॒श्वरू॑पं समाकुर्वा॒णः प्र॒रुहो॒ रुह॑श्च। दिवं॑ रू॒ढ्वा म॑ह॒ता म॑हि॒म्ना सं ते॑ रा॒ष्ट्रम॑नक्तु॒ पय॑सा घृ॒तेन॑ ॥

    स्वर सहित पद पाठ

    वि । रोहि॑त: । अ॒मृ॒श॒त् । वि॒श्वऽरू॑पम् । स॒म्ऽआ॒कु॒र्वा॒ण: । प्र॒ऽरुह॑: । रुह॑: । च॒ । दिव॑म् । रू॒ढ्वा । म॒ह॒ता । म॒हि॒म्ना । सम् । ते॒ । रा॒ष्ट्रम् । अ॒न॒क्तु॒ । पय॑सा । घृ॒तेन॑ ॥१.८॥


    स्वर रहित मन्त्र

    वि रोहितो अमृशद्विश्वरूपं समाकुर्वाणः प्ररुहो रुहश्च। दिवं रूढ्वा महता महिम्ना सं ते राष्ट्रमनक्तु पयसा घृतेन ॥

    स्वर रहित पद पाठ

    वि । रोहित: । अमृशत् । विश्वऽरूपम् । सम्ऽआकुर्वाण: । प्रऽरुह: । रुह: । च । दिवम् । रूढ्वा । महता । महिम्ना । सम् । ते । राष्ट्रम् । अनक्तु । पयसा । घृतेन ॥१.८॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 8

    टिप्पणीः - ८−(वि) विविधम् (रोहितः) म–० १। सर्वोत्पादकः (अमृशत्) विचारितवान् (विश्वरूपम्) जगतः स्वरूपम् (समाकुर्वाणः) राशीकुर्वन् (प्ररुहः) रुह बीजजन्मनि प्रादुर्भावे च-क्विप् सृष्टिवस्तूनि (रुहः) सृष्टिसामग्रीः (च) (दिवम्) विजिगीषाम् (रूढ्वा) आरुह्य (महता) विशालेन (महिम्ना) महत्त्वेन (ते) तव (राष्ट्रम्) राज्यम् (समनक्तु) संयोजयतु (पयसा) अन्नेन-निघ० २।७। (घृतेन) जलेन-निघ० १।१२ ॥

    इस भाष्य को एडिट करें
    Top