अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 5
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
आ ते॑ रा॒ष्ट्रमि॒ह रोहि॑तोऽहार्षी॒द्व्यास्थ॒न्मृधो॒ अभ॑यं ते अभूत्। तस्मै॑ ते द्यावापृथि॒वी रे॒वती॑भिः॒ कामं॑ दुहाथामि॒ह शक्व॑रीभिः ॥
स्वर सहित पद पाठआ । ते॒ । रा॒ष्ट्रम् । इ॒ह । रोहि॑त: । अ॒हा॒र्षी॒त् । वि । आ॒स्थ॒त् । मृध॑: । अभ॑यम् । ते॒ । अ॒भू॒त् । तस्मै॑ । ते॒ । द्यावा॑पृथि॒वी इति॑ । रे॒वती॑भि: । काम॑म् । दु॒हा॒था॒म् । इ॒ह । शक्व॑रीभि: ॥१.५॥
स्वर रहित मन्त्र
आ ते राष्ट्रमिह रोहितोऽहार्षीद्व्यास्थन्मृधो अभयं ते अभूत्। तस्मै ते द्यावापृथिवी रेवतीभिः कामं दुहाथामिह शक्वरीभिः ॥
स्वर रहित पद पाठआ । ते । राष्ट्रम् । इह । रोहित: । अहार्षीत् । वि । आस्थत् । मृध: । अभयम् । ते । अभूत् । तस्मै । ते । द्यावापृथिवी इति । रेवतीभि: । कामम् । दुहाथाम् । इह । शक्वरीभि: ॥१.५॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 5
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ५−(ते) तव (राष्ट्रम्) राज्यम् (इह) संसारे (रोहितः) म० १। सर्वोत्पादकः परमेश्वरः (आ अहार्षीत्) आनीतवान् (वि) पृथग्भावे (आस्थत्) असु क्षेपणे-लुङ्। क्षिप्तवान् (मृधः) मृधु उन्दने हिंसायां च-क्विप्। हिंसकान्। शत्रून् (अभयम्) भयराहित्यम् (ते) तुभ्यम् (अभूत्) (तस्मै) तथाभूताय (ते) तुभ्यम् (द्यावापृथिवी) सूर्य्यभूमी (रेवतीभिः) अ० ३।४।७। धनवतीभिः (कामम्) कामनाम् (दुहाथाम्) तकारस्य थः। दुहाताम्। पूरयताम् (इह) राज्ये (शक्वरीभिः) अ० ३।१३।७। शक्लृ शक्तौ-वनिप्। शक्तिभिः ॥
इस भाष्य को एडिट करें