Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 54
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    गी॒र्भिरू॒र्ध्वान्क॑ल्पयि॒त्वा रोहि॑तो॒ भूमि॑मब्रवीत्। त्वयी॒दं सर्वं॑ जायतां॒ यद्भू॒तं यच्च॑ भा॒व्यम् ॥

    स्वर सहित पद पाठ

    गी॒ऽभि: । ऊ॒र्ध्वान् । क॒ल्प॒यि॒त्वा। रोहि॑त: । भूमि॑म् । अ॒ब्र॒वी॒त् । त्वयि॑ । इ॒दम् । सर्व॑म् । जा॒य॒ता॒म् । यत् । भू॒तम् । यत् । च॒ । भा॒व्य᳡म् ॥१.५४॥


    स्वर रहित मन्त्र

    गीर्भिरूर्ध्वान्कल्पयित्वा रोहितो भूमिमब्रवीत्। त्वयीदं सर्वं जायतां यद्भूतं यच्च भाव्यम् ॥

    स्वर रहित पद पाठ

    गीऽभि: । ऊर्ध्वान् । कल्पयित्वा। रोहित: । भूमिम् । अब्रवीत् । त्वयि । इदम् । सर्वम् । जायताम् । यत् । भूतम् । यत् । च । भाव्यम् ॥१.५४॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 54

    टिप्पणीः - ५४−(गीर्भिः) वेदवाग्भिः (ऊर्ध्वान्) उन्नतान् पर्वतान् (कल्पयित्वा) सृष्ट्वा (रोहितः) परमेश्वरः (भूमिम्) (अब्रवीत्) अवदत् (त्वयि) भूम्याम् (इदम्) प्रत्यक्षम् (सर्वम्) (जायताम्) उत्पद्यताम् (यत्) (भूतम्) उत्पन्नं वर्तते (यत्) (च) (भाव्यम्) भवतेर्ण्यत्। उत्पत्स्यमानम् ॥

    इस भाष्य को एडिट करें
    Top