Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 19
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - पञ्चपदा परातिजागता ककुम्मत्यतिजगती सूक्तम् - अध्यात्म प्रकरण सूक्त

    वाच॑स्पते सौमन॒सं मन॑श्च गो॒ष्ठे नो॒ गा ज॒नय॒ योनि॑षु प्र॒जाः। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒हमायु॑षा॒ वर्च॑सा दधामि ॥

    स्वर सहित पद पाठ

    वाच॑: । प॒ते॒ । सौ॒म॒न॒सम् । मन॑: । च॒ । गो॒ऽस्थे । न॒: । गा: । ज॒नय॑ । योनि॑षु । प्र॒ऽजा: । इ॒ह । ए॒व । प्रा॒ण: । स॒ख्ये । न॒: । अ॒स्तु॒ । तम् । त्वा॒ । प॒र॒मे॒ऽस्थि॒न् । परि॑ । अ॒हम् । आयु॑षा । वर्च॑सा । द॒धा॒मि॒ ॥१.१९॥


    स्वर रहित मन्त्र

    वाचस्पते सौमनसं मनश्च गोष्ठे नो गा जनय योनिषु प्रजाः। इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्पर्यहमायुषा वर्चसा दधामि ॥

    स्वर रहित पद पाठ

    वाच: । पते । सौमनसम् । मन: । च । गोऽस्थे । न: । गा: । जनय । योनिषु । प्रऽजा: । इह । एव । प्राण: । सख्ये । न: । अस्तु । तम् । त्वा । परमेऽस्थिन् । परि । अहम् । आयुषा । वर्चसा । दधामि ॥१.१९॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 19

    टिप्पणीः - १९−(सौमनसम्) शुभचिन्तकत्वम् (मनः) मननम् (च) (गोष्ठे) वाचालये (नः) अस्माकम् (गाः) वाणीः। नीतीः। (जनय) उत्पादय (योनिषु) गृहेषु (प्रजाः) पुत्रपौत्रराज्यजनान् (अहम्) मनुष्यः (दधामि) स्थापयामि। अन्यत् पूर्ववत् म० १७ ॥

    इस भाष्य को एडिट करें
    Top