Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 35
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - उपरिष्टाद्विराड्बृहती सूक्तम् - अध्यात्म प्रकरण सूक्त

    ये दे॒वा रा॑ष्ट्र॒भृतो॒ऽभितो॒ यन्ति॒ सूर्य॑म्। तैष्टे॒ रोहि॑तः संविदा॒नो रा॒ष्ट्रं द॑धातु सुमन॒स्यमा॑नः ॥

    स्वर सहित पद पाठ

    ये । दे॒वा: । रा॒ष्ट्र॒ऽभृत॑: । अ॒भित॑: । यन्ति॑ । सूर्य॑म् । तै: । ते॒ । रोहि॑त: । स॒म्ऽवि॒दा॒न: । रा॒ष्ट्रम् । द॒धा॒तु॒ । सु॒ऽम॒न॒स्यमा॑न: ॥१.३५॥


    स्वर रहित मन्त्र

    ये देवा राष्ट्रभृतोऽभितो यन्ति सूर्यम्। तैष्टे रोहितः संविदानो राष्ट्रं दधातु सुमनस्यमानः ॥

    स्वर रहित पद पाठ

    ये । देवा: । राष्ट्रऽभृत: । अभित: । यन्ति । सूर्यम् । तै: । ते । रोहित: । सम्ऽविदान: । राष्ट्रम् । दधातु । सुऽमनस्यमान: ॥१.३५॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 35

    टिप्पणीः - ३५−(ये) (देवाः) विजिगीषवः (राष्ट्रभृतः) राज्यपोषकाः (यन्ति) प्राप्नुवन्ति (सूर्यम्) सर्वप्रेरकं परमेश्वरम् (तैः) देवैः (ते) तव (रोहितः) सर्वोत्पादकः परमेश्वरः (संविदानः) संगच्छमानः (राष्ट्रम्) राज्यम् (दधातु) पुष्णातु (सुमनस्यमानः) शोभनमनाः ॥

    इस भाष्य को एडिट करें
    Top