Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 3
    सूक्त - ब्रह्मा देवता - मरुद्गणः छन्दः - जगती सूक्तम् - अध्यात्म प्रकरण सूक्त

    यू॒यमु॒ग्रा म॑रुतः पृश्निमातर॒ इन्द्रे॑ण यु॒जा प्र मृ॑णीत॒ शत्रू॑न्। आ वो॒ रोहि॑तः शृणवत्सुदानवस्त्रिष॒प्तासो॑ मरुतः स्वादुसंमुदः ॥

    स्वर सहित पद पाठ

    यू॒यम् । उ॒ग्रा: । म॒रु॒त॒: । पृ॒श्नि॒मा॒त॒र॒: । इन्द्रे॑ण । यु॒जा । प्र । मृ॒णी॒त॒ । शत्रू॑न् । आ । व॒: । रोहि॑त: । शृ॒ण॒व॒त् । सु॒ऽदा॒न॒व॒: । त्रि॒ऽस॒प्तास॑: । म॒रु॒त॒: । स्वा॒दु॒ऽसं॒मु॒द॒: ॥१.३॥


    स्वर रहित मन्त्र

    यूयमुग्रा मरुतः पृश्निमातर इन्द्रेण युजा प्र मृणीत शत्रून्। आ वो रोहितः शृणवत्सुदानवस्त्रिषप्तासो मरुतः स्वादुसंमुदः ॥

    स्वर रहित पद पाठ

    यूयम् । उग्रा: । मरुत: । पृश्निमातर: । इन्द्रेण । युजा । प्र । मृणीत । शत्रून् । आ । व: । रोहित: । शृणवत् । सुऽदानव: । त्रिऽसप्तास: । मरुत: । स्वादुऽसंमुद: ॥१.३॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 3

    टिप्पणीः - ३−(यूयम्) (उग्राः) प्रचण्डाः (मरुतः) अ० १।२०।१। हे शूरवीराः (पृश्निमातरः) अ० ५।२१।११। प्रच्छ ज्ञीप्सायाम्-नि। प्रष्टव्या वेदवाणी मातृवत् सत्करणीया येषां ते (इन्द्रेण) परमैश्वर्यवता सेनापतिना (युजा) मित्रेण (प्र) प्रकर्षेण (मृणीत) मॄ हिंसायाम्। मारयत (शत्रून्) अरीन् (आ) समन्तात् (वः) युष्मान् (रोहितः) म० १। सर्वोत्पादकः परमेश्वरः (शृणवत्) शृणुयात् (सुदानवः) हे महादातारः (त्रिषप्तासः) बहुव्रीहौ संख्येये डजबहुगणात्। पा० ५।४।७३। इति डच्, असुगागमः। त्रिभिः कर्म्मोपासनाज्ञानैः सह सप्त त्वक्चक्षुःश्रवणरसनाघ्राणमनोबुद्धयो येषां ते तथाभूताः (मरुतः) (स्वादुसम्मुदः) कृवापाजिमिस्वदि०। उ० १? ष्वद आस्वादने-उण्+सम्+मुद हर्षे-क्विप्। भोज्यान्ने परस्परहर्षितारः ॥

    इस भाष्य को एडिट करें
    Top