Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 25
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    यो रोहि॑तो वृष॒भस्ति॒ग्मशृ॑ङ्गः॒ पर्य॒ग्निं परि॒ सूर्यं॑ ब॒भूव॑। यो वि॑ष्ट॒भ्नाति॑ पृथि॒वीं दिवं॑ च॒ तस्मा॑द्दे॒वा अधि॒ सृष्टीः॑ सृजन्ते ॥

    स्वर सहित पद पाठ

    य: । रोहि॑त: । वृ॒ष॒भ: । ति॒ग्मऽशृ॑ङ्ग: । परि॑ । अ॒ग्निम् । परि॑ । सूर्य॑म् । ब॒भूव॑ । य: । वि॒ऽस्त॒भ्नाति॑ । पृ॒थि॒वीम् । दिव॑म् । च॒ । तस्मा॑त् । दे॒वा: । अधि॑ । सृष्टी॑: । सृ॒ज॒न्ते॒ ॥१.२५॥


    स्वर रहित मन्त्र

    यो रोहितो वृषभस्तिग्मशृङ्गः पर्यग्निं परि सूर्यं बभूव। यो विष्टभ्नाति पृथिवीं दिवं च तस्माद्देवा अधि सृष्टीः सृजन्ते ॥

    स्वर रहित पद पाठ

    य: । रोहित: । वृषभ: । तिग्मऽशृङ्ग: । परि । अग्निम् । परि । सूर्यम् । बभूव । य: । विऽस्तभ्नाति । पृथिवीम् । दिवम् । च । तस्मात् । देवा: । अधि । सृष्टी: । सृजन्ते ॥१.२५॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 25

    टिप्पणीः - २५−(यः) (रोहितः) (वृषभः) महाशक्तिमान् (तिग्मशृङ्गः) तीव्रतेजाः (परि) सर्वतः (अग्निम्) प्रत्यक्षम् (परि) (सूर्यम्) आदित्यमण्डलम् (यः) (विष्टभ्नाति) विशेषेणावलम्बते (पृथिवीम्) (दिवम्) आकाशम् (च तस्मात्) परमेश्वरात् (देवाः) दिव्यनियमाः (अधि) अधिकृत्य (सृष्टीः) रचनाः। सृज्यमानान् पदार्थान् (सृजन्ते) रचयन्ति ॥

    इस भाष्य को एडिट करें
    Top