Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 48
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - अनुष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    स्व॒र्विदो॒ रोहि॑तस्य॒ ब्रह्म॑णा॒ग्निः समि॑ध्यते। तस्मा॑द्घ्रं॒सस्तस्मा॑द्धि॒मस्तस्मा॑द्य॒ज्ञोजा॑यत ॥

    स्वर सहित पद पाठ

    स्व॒:ऽविद॑: । रोहि॑तस्य । ब्रह्म॑णा । अ॒ग्नि: । सम् । इ॒ध्य॒ते॒ । तस्मा॑त् । घ्रं॒स: । तस्मा॑त् । हि॒म: । तस्मा॑त् । य॒ज्ञ: । अ॒जा॒य॒त॒ १.४८॥


    स्वर रहित मन्त्र

    स्वर्विदो रोहितस्य ब्रह्मणाग्निः समिध्यते। तस्माद्घ्रंसस्तस्माद्धिमस्तस्माद्यज्ञोजायत ॥

    स्वर रहित पद पाठ

    स्व:ऽविद: । रोहितस्य । ब्रह्मणा । अग्नि: । सम् । इध्यते । तस्मात् । घ्रंस: । तस्मात् । हिम: । तस्मात् । यज्ञ: । अजायत १.४८॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 48

    टिप्पणीः - ४८−(स्वर्विदः) सुखप्रापकस्य (रोहितस्य) सर्वोत्पादकस्य परमेश्वरस्य (ब्रह्मणा) वेदज्ञानेन (अग्निः) सूर्यादिः (समिध्यते) यथाविधि दीप्यते (तस्मात्) परमेश्वरात् (घ्रंसः) तापः (तस्मात्) (हिमः) शीतधर्मः (तस्मात्) (यज्ञः) संयोगवियोगव्यवहारः (अजायत) उदपद्यत ॥

    इस भाष्य को एडिट करें
    Top