Loading...

काण्ड के आधार पर मन्त्र चुनें

  • अथर्ववेद का मुख्य पृष्ठ
  • अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 56
    सूक्त - ब्रह्मा देवता - अध्यात्मम्, रोहितः, आदित्यः छन्दः - त्रिष्टुप् सूक्तम् - अध्यात्म प्रकरण सूक्त

    यश्च॒ गां प॒दा स्फु॒रति॑ प्र॒त्यङ्सूर्यं॑ च॒ मेह॑ति। तस्य॑ वृश्चामि ते॒ मूलं॒ न च्छा॒यां क॑र॒वोऽप॑रम् ॥

    स्वर सहित पद पाठ

    य: । च॒ । गाम् । प॒दा । स्फु॒रति॑ । प्र॒त्यङ् । सूर्य॑म् । च॒ । मेह॑ति। तस्य॑ । वृ॒श्चा॒मि॒ । ते॒ । मूल॑म् । न । छा॒याम् । क॒र॒व॒: । अप॑रम् ॥१.५६॥


    स्वर रहित मन्त्र

    यश्च गां पदा स्फुरति प्रत्यङ्सूर्यं च मेहति। तस्य वृश्चामि ते मूलं न च्छायां करवोऽपरम् ॥

    स्वर रहित पद पाठ

    य: । च । गाम् । पदा । स्फुरति । प्रत्यङ् । सूर्यम् । च । मेहति। तस्य । वृश्चामि । ते । मूलम् । न । छायाम् । करव: । अपरम् ॥१.५६॥

    अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 56

    टिप्पणीः - ५६−(यः) दुराचारी (च) (गाम्) वेदवाचम् (पदा) पादेन। तिरस्कारेण (स्फुरति) संचालयति (प्रत्यङ्) प्रतिकूलगामी (सूर्यम्) सूर्यवत्तेजस्विनं विद्वांसम् (च) (मेहति) मिधृ मेधृ मेधाहिंसनयोः, धस्य हः। मेधति हिनस्ति (तस्य) दुष्टस्य (वृश्चामि) छिनद्मि (ते) तव (मूलम्) (न) निषेधे (छायाम्) माछाससिभ्यो यः। उ० ४।१०९। छो छेदने-य, टाप्। छ्यति प्रकाशमप्रकाशं वा। छाया सूर्यप्रिया कान्तिः प्रतिबिम्बमनातपः-अमर० २३।२५७। अनातपम्। अन्धकारम्। अज्ञानम् (करवः) कॄ विक्षेपे लेट्, छन्दसि तनादित्वादु प्रत्ययः, गुणे च कृते, करु सिप्। लेटोऽडाटौ। पा० ३।४।९४। इत्यटि गुणे च कृते सकारस्य विसर्गे च जाते रूपसिद्धिः। विक्षिप। विस्तारय (अपरम्) पुनः ॥

    इस भाष्य को एडिट करें
    Top