अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 32
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
उ॒द्यंस्त्वं दे॑व सूर्य स॒पत्ना॒नव॑ मे जहि। अवै॑ना॒नश्म॑ना जहि॒ ते य॑न्त्वध॒मं तमः॑ ॥
स्वर सहित पद पाठउ॒त्ऽयन् । त्वम् । दे॒व॒ । सू॒र्य॒ । स॒ऽपत्ना॑न् । अव॑ । मे॒ । ज॒हि॒ । अव॑ । ए॒ना॒न् । अश्म॑ना । ज॒हि॒ । ते॒ । य॒न्तु॒ । अ॒ध॒मम् । तम॑: ॥१.३२॥
स्वर रहित मन्त्र
उद्यंस्त्वं देव सूर्य सपत्नानव मे जहि। अवैनानश्मना जहि ते यन्त्वधमं तमः ॥
स्वर रहित पद पाठउत्ऽयन् । त्वम् । देव । सूर्य । सऽपत्नान् । अव । मे । जहि । अव । एनान् । अश्मना । जहि । ते । यन्तु । अधमम् । तम: ॥१.३२॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 32
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३२−(उद्यन्) उद्गच्छन् (त्वम्) (देव) विजिगीषो (सूर्य) सर्वप्रेरक राजन् (सपत्नान्) (मे) मम (अव जहि) विनाशय (एनान्) सपत्नान् (अश्मना) प्रस्तरादिना (अवजहि) (ते) शत्रवः (यन्तु) गच्छन्तु (अधमम्) अतिनिकृष्टम् (तमः) अन्धकारम् ॥
इस भाष्य को एडिट करें