अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 30
सूक्त - ब्रह्मा
देवता - अग्निः
छन्दः - अनुष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
अ॑वा॒चीना॒नव॑ ज॒हीन्द्र॒ वज्रे॑ण बाहु॒मान्। अधा॑ स॒पत्ना॑न्माम॒कान॒ग्नेस्तेजो॑भि॒रादि॑षि ॥
स्वर सहित पद पाठअ॒वा॒चीना॑न् । अव॑ । ज॒हि॒ । इन्द्र॑ । वज्रे॑ण । बा॒हु॒ऽमान् । अध॑ । स॒ऽपत्ना॑न् । मा॒म॒कान् । अ॒ग्ने । तेज॑:ऽभि: । आ । अ॒दि॒षि॒ ॥१.३०॥
स्वर रहित मन्त्र
अवाचीनानव जहीन्द्र वज्रेण बाहुमान्। अधा सपत्नान्मामकानग्नेस्तेजोभिरादिषि ॥
स्वर रहित पद पाठअवाचीनान् । अव । जहि । इन्द्र । वज्रेण । बाहुऽमान् । अध । सऽपत्नान् । मामकान् । अग्ने । तेज:ऽभि: । आ । अदिषि ॥१.३०॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 30
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - ३०−(अवाचीनान्) अधोगतीन्। अधार्मिकान् (अव जहि) विनाशय (इन्द्र) हे परमैश्वर्यवन् सेनापते (वज्रेण) शस्त्रेण (बाहुमान्) प्रबलभुजः (अध) अथ (सपत्नान्) (मामकान्) अ० १।२९।५। मम सम्बन्धिनः (अग्नेः) पावकस्य (तेजोभिः) ज्वालाभिः (आ अदिषि) ददातेर्लुङ्। गृहीतवानस्मि ॥
इस भाष्य को एडिट करें