अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 14
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिपदा पुरःपरशाक्वरा विपरीतपादलक्ष्मा पङ्क्तिः
सूक्तम् - अध्यात्म प्रकरण सूक्त
रोहि॑तो य॒ज्ञं व्यदधाद्वि॒श्वक॑र्मणे॒ तस्मा॒त्तेजां॒स्युप॑ मे॒मान्यागुः॑। वो॒चेयं॑ ते॒ नाभिं॒ भुव॑न॒स्याधि॑ म॒ज्मनि॑ ॥
स्वर सहित पद पाठरोहि॑त: । य॒ज्ञम् । वि । अ॒द॒धा॒त् । वि॒श्वऽक॑र्मणे । तस्मा॑त् । तेजां॑सि । उप॑ । मा॒ । इ॒मानि॑। आ । अ॒गु॒: । वो॒चेय॑म् । ते॒ । नाभि॑म् । भुव॑नस्य । अधि॑ । म॒ज्मनि॑॥१.१४॥
स्वर रहित मन्त्र
रोहितो यज्ञं व्यदधाद्विश्वकर्मणे तस्मात्तेजांस्युप मेमान्यागुः। वोचेयं ते नाभिं भुवनस्याधि मज्मनि ॥
स्वर रहित पद पाठरोहित: । यज्ञम् । वि । अदधात् । विश्वऽकर्मणे । तस्मात् । तेजांसि । उप । मा । इमानि। आ । अगु: । वोचेयम् । ते । नाभिम् । भुवनस्य । अधि । मज्मनि॥१.१४॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 14
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १४−(रोहितः) परमेश्वरः (यज्ञम्) संगतिकरणव्यवहारम् (व्यदधात्) उत्पादितवान् (विश्वकर्मणे) सर्वकर्म्मप्रवीणाय मनुष्याय (तस्मात्) परमेश्वरात् (तेजांसि) (उप) समीपे (मा) माम् (इमानि) दृश्यमानानि (आ अगुः) प्राप्तानि अभवन् (वोचेयम्) वदेयम् (ते) तव (नाभिम्) सम्बन्धम् (भुवनस्य) संसारस्य (अधि) अधिकृत्य (मज्मनि) टुमस्जो शुद्धौ-मनिन्। मज्मना बलनाम-निघ० २।९। बले ॥
इस भाष्य को एडिट करें