अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 26
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - विराट्परोष्णिक्
सूक्तम् - अध्यात्म प्रकरण सूक्त
रोहि॑तो॒ दिव॒मारु॑हन्मह॒तः पर्य॑र्ण॒वात्। सर्वो॑ रुरोह॒ रोहि॑तो॒ रुहः॑ ॥
स्वर सहित पद पाठरोहि॑त: । दिव॑म् । आ । अ॒रु॒ह॒त् । म॒ह॒त: । परि॑ । अ॒र्ण॒वात् । सर्वा॑: । रु॒रो॒ह॒ । रोहि॑त: । रुह॑: ॥१.२६॥
स्वर रहित मन्त्र
रोहितो दिवमारुहन्महतः पर्यर्णवात्। सर्वो रुरोह रोहितो रुहः ॥
स्वर रहित पद पाठरोहित: । दिवम् । आ । अरुहत् । महत: । परि । अर्णवात् । सर्वा: । रुरोह । रोहित: । रुह: ॥१.२६॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 26
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २६−(रोहितः) सर्वोत्पादकः (दिवम्) प्रत्येकव्यवहारम् (आ अरुहत्) प्रादुष्कृतवान् (महतः) विशालात् (परि) सर्वतः (अर्णवात्) समुद्रात्। अगम्यसामर्थ्यात् (सर्वाः) (रुरोह) जनयामास (रोहितः) (रुहः) सृष्टिसामग्रीः ॥
इस भाष्य को एडिट करें