अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 17
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - पञ्चपदा ककुम्मती जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
वाच॑स्पते पृथि॒वी नः॑ स्यो॒ना स्यो॒ना योनि॒स्तल्पा॑ नः सु॒शेवा॑। इ॒हैव प्रा॒णः स॒ख्ये नो॑ अस्तु॒ तं त्वा॑ परमेष्ठि॒न्पर्य॒ग्निरायु॑षा॒ वर्च॑सा दधातु ॥
स्वर सहित पद पाठवाच॑: । प॒ते॒ । पृ॒थि॒वी । न॒: । स्यो॒ना । स्यो॒ना: । योनि॑: । तल्पा॑ । न॒: । सु॒ऽशेवा॑ । इ॒ह । ए॒व । प्रा॒ण: । स॒ख्ये । न॒: । अ॒स्तु॒ । तम् । त्वा॒ । प॒र॒मे॒ऽस्थि॒न्। परि॑ । अ॒ग्नि: ।आयु॑षा । वर्च॑सा । द॒धा॒तु॒ ॥१.१७॥
स्वर रहित मन्त्र
वाचस्पते पृथिवी नः स्योना स्योना योनिस्तल्पा नः सुशेवा। इहैव प्राणः सख्ये नो अस्तु तं त्वा परमेष्ठिन्पर्यग्निरायुषा वर्चसा दधातु ॥
स्वर रहित पद पाठवाच: । पते । पृथिवी । न: । स्योना । स्योना: । योनि: । तल्पा । न: । सुऽशेवा । इह । एव । प्राण: । सख्ये । न: । अस्तु । तम् । त्वा । परमेऽस्थिन्। परि । अग्नि: ।आयुषा । वर्चसा । दधातु ॥१.१७॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 17
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।