अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 24
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - त्रिष्टुप्
सूक्तम् - अध्यात्म प्रकरण सूक्त
सूर्य॒स्याश्वा॒ हर॑यः केतु॒मन्तः॒ सदा॑ वहन्त्य॒मृताः॑ सु॒खं रथ॑म्। घृ॑त॒पावा॒ रोहि॑तो॒ भ्राज॑मानो॒ दिवं॑ दे॒वः पृष॑ती॒मा वि॑वेश ॥
स्वर सहित पद पाठसूर्य॑स्य । अश्वा॑: । हर॑य: । के॒तु॒ऽमन्त॑: । सदा॑ । व॒ह॒न्ति॒ । अ॒मृता॑: । सु॒ऽखम् । रथ॑म् । घृ॒त॒ऽपावा॑ । रोहि॑त: । भ्राज॑माना: । दिव॑म् । दे॒व: । पृष॑तीम् । आ । वि॒वे॒श॒ ॥१.२४॥
स्वर रहित मन्त्र
सूर्यस्याश्वा हरयः केतुमन्तः सदा वहन्त्यमृताः सुखं रथम्। घृतपावा रोहितो भ्राजमानो दिवं देवः पृषतीमा विवेश ॥
स्वर रहित पद पाठसूर्यस्य । अश्वा: । हरय: । केतुऽमन्त: । सदा । वहन्ति । अमृता: । सुऽखम् । रथम् । घृतऽपावा । रोहित: । भ्राजमाना: । दिवम् । देव: । पृषतीम् । आ । विवेश ॥१.२४॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 24
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - २४−(सूर्यस्य) सर्वप्रेरकस्य परमेश्वरस्य (अश्वाः) अशू व्याप्तौ-क्वन्। व्यापकाः (हरयः) स्वीकरणीया गुणाः (केतुमन्त,) चायः की। उ० १।७४। चायृ पूजानिशामनयोः-तु। केतुः प्रज्ञानाम-निघ० ३।९। विज्ञानमयाः (सदा) (वहन्ति) गमयन्ति (अमृताः) अमरणाः। पुरुषार्थयुक्ताः (सुखम्) सुखेन (रथम्) म० २१। रमणयोग्यं संसारम् (घृतपावा) आतो मनिन्क्वनिब्वनिपश्च। पा० ३।२।७४। घृत+पा रक्षणे-वनिप्। सेचनबलस्य रक्षकः (रोहितः) सर्वोत्पादकः (भ्राजमानः) प्रकाशमानः (दिवम्) व्यवहारकुशलम् (देवः) ज्ञानवान् (पृषतीम्) सेचनकुशलां प्रकृतिम् (आ विवेश) प्रविष्टवान् ॥
इस भाष्य को एडिट करें