अथर्ववेद - काण्ड 13/ सूक्त 1/ मन्त्र 12
सूक्त - ब्रह्मा
देवता - अध्यात्मम्, रोहितः, आदित्यः
छन्दः - जगती
सूक्तम् - अध्यात्म प्रकरण सूक्त
स॒हस्र॑शृङ्गो वृष॒भो जा॒तवे॑दा घृ॒ताहु॑तः॒ सोम॑पृष्ठः सु॒वीरः॑। मा मा॑ हासीन्नाथि॒तो नेत्त्वा॒ जहा॑नि गोपो॒षं च॑ मे वीरपो॒षं च॑ धेहि ॥
स्वर सहित पद पाठस॒हस्र॑ऽशृङ्ग: । वृ॒ष॒भ: । जा॒तऽवे॑दा: । घृ॒तऽआ॑हुत: । सोम॑ऽपृष्ठ: । सु॒ऽवीर॑: । मा । मा॒ । हा॒सी॒त् । ना॒थि॒त: । न । इत् । त्वा॒ । जहा॑नि । गो॒ऽपो॒षम् । च॒ । मे॒ । वी॒र॒ऽपो॒षम् । च॒ । धे॒हि॒ ॥१.१२॥
स्वर रहित मन्त्र
सहस्रशृङ्गो वृषभो जातवेदा घृताहुतः सोमपृष्ठः सुवीरः। मा मा हासीन्नाथितो नेत्त्वा जहानि गोपोषं च मे वीरपोषं च धेहि ॥
स्वर रहित पद पाठसहस्रऽशृङ्ग: । वृषभ: । जातऽवेदा: । घृतऽआहुत: । सोमऽपृष्ठ: । सुऽवीर: । मा । मा । हासीत् । नाथित: । न । इत् । त्वा । जहानि । गोऽपोषम् । च । मे । वीरऽपोषम् । च । धेहि ॥१.१२॥
अथर्ववेद - काण्ड » 13; सूक्त » 1; मन्त्र » 12
सूचना -
कृपया अस्य मन्त्रस्यार्थम् आर्य(हिन्दी)भाष्ये पश्यत।
टिप्पणीः - १२−(सहस्रशृङ्गः) अ० ४।५।१। बहुतेजाः (वृषभः) महाशक्तिमान् (जातवेदाः) जातानि उत्पन्नानि वेदांसि वेदा यस्मात् सः (घृताहुतः) प्रकाशप्रदः (सोमपृष्ठः) ऐश्वर्यसेचकः (सुवीरः) महाशूरः (मा) माम् (मा हासीत्) न त्यजतु (नाथितः) प्रार्थितः (नेत्) नैव (त्वा) (जहानि) त्यजानि (गोपोषम्) गवानां विद्यानां वृद्धिम् (च) (मे) मह्यम् (वीरपोषम्) शूराणां पोषणम् (च) (धेहि) देहि ॥
इस भाष्य को एडिट करें